आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि।
गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति॥ 47 ॥
हेमन्ते पथिकजनाः प्रियावियुक्ता लोकानां गृहबहिरङ्गणे शयानाः।
कन्दर्पाकुलमनसां निशासु तेषां शीतं किं लगति जगत्प्रकम्पकारि॥ 48 ॥
हेमन्ते हिमकरबिम्बचारुमुख्या रामाया मृदुभुजपञ्जरे शयानाः।
ये कालं परमसुखं नयन्ति तेषां शीतं किं लगति जगत्प्रकम्पकारि॥ 49 ॥
हे पान्थ प्रियविप्रयोगहुतभुग्ज्वालानभिज्ञोऽसि किं किंवा नास्ति तव प्रिया गतघृण) किंवा विहीनो धिया।
येनास्मिन्नवकुङ्कुमारुणरुचिव्यासङ्गघर्मोचिते कुन्दानन्दितमत्तषट्पदकुले काले गृहान्निर्गतः॥ 50 ॥
शीतार्तिप्रसरस्तथाकुलपदन्यासैः समुत्कम्पिभिः पान्तैर्निर्दयतुच्छगोधननदद्वापारवैः सूचिताः।
प्राप्यन्ते हिमपीडितानि निभृतप्रोद्धाटधूमा घनस्तोकालक्षकुटीरकाः कथमपि प्राप्ता गिरिग्रामकाः॥ 51 ॥
अन्योन्याहतिदन्तनादमुखरं वक्रं मुखं कुर्वता नेत्रे साश्रुकणे निमील्य पुलकव्यासङ्गि कण्डूयता।
हाहाहेति सुनिष्ठुरं विवदता बाहू प्रसार्य क्षणं पुण्याग्निः पथिकेन पीयत इव ज्वालाहतश्मश्रुणा॥ 52 ॥