०३ हेमन्तवायवः

दधत्यधरचुम्बनं नयनपङ्कजं मुद्रयत्यमन्दपुलकं मनागलममङ्गमालिङ्गते।
विचालयति चालकं चपललोचनानां हठात्तनोत्यविनयं मरुत्प्रिय इवैष हेमन्तिकः॥ 44 ॥
हूणीसीमन्तमुद्रां सपदि तरलयन्कीरकान्ताकुचान्तः स्वच्छन्दस्तस्तव स्त्री चलचपलतया लोलयन्हारवल्लीम्।
प्रालेयावासपृथ्वीधरशिखरचलच्चारुवारिप्रवाहप्रक्षोभप्रातिभश्रीः प्रसरति परितो हैमनो गन्धवाहः॥ 45 ॥
नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान् कौन्दानानन्दितालीनतितरसुरभीन् भूरिशो दिङ्मुखेषु।
एते ते कुङ्कुमाक्तस्तनकलशभरास्फालनादुच्छलन्तः पीत्वा सीत्कारिवक्त्रं शिशुहरिणदृशां हैमना वान्ति वाताः॥ 46 ॥