०२ कन्दुकक्रीडा

पयोधराकारधरो हि कन्दुकः करेण रोषादिव ताड्यते मुहुः।
इतीव नेत्राकृतिभीतमुत्पलं तस्याः प्रसादाय पपात पादयोः॥ 34 ॥
वनिताकरतामरसाभिहतः पतितः पतितः पुनरुत्पतसि।
विदितं खलु कन्दुक ते हृदयं वनिताधरसङ्गमलुब्धमिव॥ 35 ॥
सानन्दकन्दुकविहारविधौ वधूनां दोलायमानमणिकङ्कणनिक्वणेन।
उड्डायितेषु युवचित्तविहङ्गमेषु श्येना इव स्मृतिभुवो विशिखा विलग्नाः॥ 36 ॥
स्मरशरधिनिकाशं कर्णपाशं कृशाङ्गी रयविगलिततालीपत्त्रताटङ्कमेकम्।
वहति हृदयचोरं कुङ्कुमन्यासगौरं वलयितमिव नालं लोचनेन्दीवरस्य॥ 37 ॥
अमन्दमणिनूपुरक्वणनचारुचारिक्रमं झणज्झणितमेखलास्खलिततारहारच्छटम्।
इदं तरलकङ्कणावलिविशेषवाचालितं मनो हरति सुभ्रुवः किमपि कन्दुकक्रीडनम्॥ 38 ॥
भ्रमच्चरणपल्लवक्वणदमन्दमञ्जीरकं परिस्खलदुरोरुहस्तबककम्पमानांशुकम्।
रणत्कनकमेखलं करसरोरुहाभ्यां पुरः पतन्तमपराददे कुसुमकन्दुकं सुन्दरी॥ 39 ॥
वक्त्रश्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दुकं व्रीडाकौतुकमिश्रभावमनया तिर्यग्वहन्त्याननम्।
भृङ्गाग्रग्रहकृष्णकेतकदलस्पर्धावतीनां दृशां दीर्घापाङ्‌गतरङ्गणैकसुहृदां कोऽप्येष पात्रीकृतः॥ 40 ॥
व्यावल्गत्कुचभारमाकुलकचं व्यालोलहारावलि प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रस्वेदिवक्त्राम्बुजम्।
शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया यस्मात्कन्दुक सादरं सुभगया सम्सेव्यसे तत्कृती॥ 41 ॥
चञ्चच्चेलाञ्चलानि प्रतिसरणिचलव्यस्तवेणीनि बाहोर्विक्षेपाद्दक्षिणस्य प्रचलितवलयस्फारकोलाहलानि।
श्वासत्रुट्यद्वचांसि द्रुतमितरकरोत्क्षेपलोलालकानि स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां कन्दुकक्रीडितानि॥ 42 ॥
अस्याः स्वेदाम्बुबिन्दुच्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेर्वारं वारेण वेगप्रहणनगणनाकेलिवाचालितायाः।
तत्पातोत्थानतालक्रमनमितदृशस्ताण्डवोत्तालतालीलालित्याल्लोभिताः स्मः प्रतिकलममुना कन्दुकक्रीडितेन॥ 43 ॥