०१ हेमन्तसमयस्वभावाख्यानम्

हे हेमन्त स्मरिष्यामि त्वय्यतीते गुणद्वयम्।
अयत्नशीतलं वारि निशाश्च सुरतक्षमाः॥ 4 ॥
हसन्तीं वा हसन्तीं वा हसन्तीं वामलोचनाम्।
हेमन्ते ये न सेवन्ते ते नूनं दैववञ्चिताः॥ 5 ॥
कामिनो हन्त हेमन्तनिशि शीतज्वरातुराः।
जीवन्ति हरिणाक्षीणां वक्षोजाश्लेषरक्षिताः॥ 6 ॥
अद्य शीतं वरीवर्ति सरीसर्ति समीरणः।
अपत्नीको मरीमर्ति नरीनर्ति कुचोष्मवान्॥ 7 ॥
हिमधवलदन्तकेशी मन्दद्युतितारका बृहत्तिमिरा।
द्विगुणीभूता रजनी वृद्धेव शनैः शनैर्याति॥ 8 ॥
अम्बरमेव रमण्यै यामिन्यै वासरः प्रेयान्।
अधिकं ददौ निजाङ्गादथ सङ्कुचितः स्वयं तस्थौ॥ 9 ॥
विकसति सूर्ये विकसति मुकुलति चास्तं गते तस्मिन्।
शिशिरे निःस्वकुटुम्बः पङ्कजलीलां समुद्वहति॥ 10 ॥
1कन्याप्रसूतस्य 2धनुःप्रसङ्गादङ्गाधिकासादितविक्रमस्य।
3धनञ्जयाधीनपराक्रमस्य हिमस्य कर्णस्य च को विशेषः॥ 11 ॥

अलं हिमानीपरिदीर्णगात्रः समापितः फाल्गुनसङ्गमेन।
अत्यन्तमाकाङ्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः॥ 12 ॥
अविरलफनिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः।
गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषारकालः॥ 13 ॥
निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम्।
विकृतिमुपययौ न पाण्डुसूनुश्चलति नयान्न जिगीषतां हि चेतः॥ 14 ॥
कतिपयसहकारपुष्परम्यस्तनुतिहिनोऽल्पविनिद्रसिन्दुवारः।
सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः॥ 15 ॥
गजपतिद्वयसीरपि हैमनस्तुहिनयन्सरितः पृषतां पतिः।
सलिलसन्ततिमध्वगयोषितामतनुतातनुतापकृतं दृशाम्॥ 16 ॥
इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा।
स्मृतसयौवनसोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिनः॥ 17 ॥
प्रियतमेन यया सरुषा स्थितं न सहसा सहसा परिरभ्य तम्।
श्लथयितुं क्षणमक्षमताङ्गना न सहसा सहसा कृतवेपथुः॥ 18 ॥
भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः।
दशनरश्मिपटेन च सीत्कृतौर्निवसितेन सितेन सुनिर्ववौ॥ 19 ॥
व्रणभृता सुतनोः कलसीत्कृतस्फुरितदन्तमरीचिमयं दधे।
स्फुटमिवावरणं हिममारुतैर्मृदुतया दुतयाधरलेखया॥ 20 ॥
धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः।
पृथुनिरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे॥ 21 ॥
हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणि।
प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः॥ 22 ॥
प्रालेयशैलशिखरानिलसम्प्रयोगः प्रोत्फुल्लकुन्दमकरन्दहृतालिवृन्दः।
कालोऽयमातपति कुङ्कुमपङ्कपिङ्गप्रोत्तुङ्गरम्यरमणीकुचसङ्गयोग्यः॥ 23 ॥
शुकहरितयवानां सीम्नि नीहारभासः सपदि विगतनिद्राः क्रौञ्चकान्ताः क्षपान्ते।
विदधति कमनीयक्वाणमुद्यत्ककारं सरलितगलनालं जर्जरस्फाररेफम्॥ 24 ॥
लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने।
परिहरति सुषुप्तं हालिकद्वन्द्वमारात्कुचकलशमहोष्माबद्धरेखस्तुषारः॥ 25 ॥
अपि दिनमणिरेष क्लेशितः शीतसङ्घैरथ निशि निजभार्यां गाढमालिङ्ग्य दोर्भ्याम्।
स्वपिति पुनरुदेतुं सालसाङ्गस्तु तस्मात् किमु न भवतु दीर्घा हैमिनी यामिनीयम्॥ 26 ॥
जरीजृम्भत्प्रौढद्युमणिकरसन्दोहसदृशस्फुरद्दीप्तिव्रातप्रगुणतरतारुण्यसुभगाम्।
हसन्तीं हेमन्ते परिजनयुतां वा सुवदनां हसन्तीं सेवन्ते परिणतमहाभाग्यनिचयाः॥ 27 ॥
वेपन्ते कपयो भृशं कृतजडं गोजाविकं म्लायति श्वा चुल्लीकुहरोदरं क्षणमपि प्राप्यापि नैवोज्झति।
शीतार्तिव्यसनातुरः पुनरसौ दीनो जनः कूर्मवत्स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति॥ 28 ॥
शीतांशोरिव नूतनस्य रुचयो विद्या इवामेधसां विप्रातिक्रमिणां विभूतय इव क्षीबस्य बोधा इव।
भावैः संवलिता इव प्रियतमे दृग्भङ्गयः सुभ्रुवां प्रादुर्भूय तिरोभवन्ति सहसा हैमन्तिका वासराः॥ 29 ॥
लज्जा प्रौढमृगीदृशामिव नवस्त्रीणां रतेच्छा इव स्वैरिण्या नियमा इव स्मितरुचः कुल्याङ्गनानामिव।
दम्पत्यो कलहा इव प्रणयिता वाराङ्गनानामिव प्रादुर्भूय तिरोभवन्ति सहसा हैमन्तिका वासराः॥ 30 ॥
हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः काश्मीरद्रवलिप्तचारुवपुषः खिन्ना विचित्रैः रतैः।
वृत्तोरुस्तनकामिनीजनकृताश्लेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते॥ 31 ॥
चक्रे चण्डरुचा समं रणमसौ हेमन्तपृथ्वीपतिर्ये ये तत्र जिता दिवाकरकरास्ते तेऽमुना तत्क्षणात्।
कान्तानां कुचभूधरे निदधिरे मन्येऽहमेवं तदा नो चेन्मन्दकरः कथं दिनकरस्तप्तश्च नन्वीस्तनः॥ 32 ॥
प्रोद्यत्प्रौढारविन्दद्युतिभृति विदलत्कुन्दमाद्यद्द्विरेफे काले प्रालेयवातप्रबलविकसितोद्दाममन्दारदाम्नि।
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी तेषामायामियामा यमसदनसमा यामिनी याति नूनम्॥ 33 ॥


  1. कन्याराशावुत्पन्नस्य; [पक्षे] कुमारिकायां प्रसूतस्य. ↩︎

  2. धनूराशिसङ्गमेनाङ्गेषु शरीरेष्वधिकमासादितः सम्पादितो विक्रमो रोमाञ्चोत्पादनादिरूपः पराक्रमो येन; [पक्षे] धनुर्विद्ययाङ्गदेशेषु सम्पादितः पराक्रमो येन. ↩︎

  3. धनञ्जयोऽग्निस्तदधीनः पराक्रमो बलं यस्य; [पक्षे] धनञ्जयोऽर्जुनस्तदधीनपराक्रमः. ↩︎