+७३ शरद्वर्णनम्

अहो बाणस्य सन्धानं शरदि स्मरभूपतेः।
अपि सोऽयं त्विषामीशः कन्याराशिमुपागतः॥ 1 ॥
1अपीतक्षीबकादम्बमसंसृष्टामलाम्बरम्।
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोरमम्॥ 2 ॥

अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा।
कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम्॥ 3 ॥


  1. मत्त. ↩︎