पङ्कानुषङ्गं पथि विस्मरन्तः कथावशेषे च पयोदवृन्दे।
मार्गेषु चन्द्रातपपिच्छिलेषु पदे पदे चस्खलुरध्वनीनाः॥ 57 ॥
इह निचुलनिकुञ्जे वंशसम्भारभाजि स्वपिषि यदि मुहूर्तं पश्यति क्षेत्रमेतत्।
इति पथिकमकस्मान्मार्ग एवोपविष्टं वदति तरुणकान्तं गोपिका साङ्गभङ्गम्॥ 58 ॥