०३ शरद्वायवः

वान्ति रात्रौ रतिक्लान्तकामिनीसुहृदोऽनिलाः।
ललनालोलधम्मिल्लमल्लिकामोदवासिताः॥ 55 ॥
वान्ति कह्लारसुभगाः सप्तच्छदसुगन्धयः।
वाता नवरतग्लानवधूगमनमन्थराः॥ 56 ॥