०२ भ्रमरक्रीडा

अलक्षितकुचाभोगं भ्रमन्ती नृत्यभूमिषु।
स्मरेणापि सरोजाक्षी न लक्ष्यीक्रियते शरैः॥ 48 ॥
भ्रमात्प्रकीर्णे भ्रमरीषु किञ्चिच्चेलाञ्चले चञ्चललोचनायाः।
कुचौ कदाचिज्जघनं युवानो विलोक्य साफल्यमवापुरक्ष्णोः॥ 49 ॥
परिभ्रमन्त्या भ्रमरीविनोदे नितम्बबिम्बाद्विगलद्दुकूलम्।
विलोक्य कस्याश्चन कोमलाङ्ग्याः पुंभावमन्याः सुदृशो ववाञ्छुः॥ 50 ॥
यतो यतः षट्चरणोऽभिवर्तते ततस्ततः प्रेरितलोललोचना।
विवर्तितभ्रूरियमद्य शिक्षते भयादकामापि हि दृष्टिविभ्रमम्॥ 51 ॥
करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिक्षमम्।
उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः॥ 52 ॥
चेलाञ्चलेन चलहारलताप्रकाण्डैर्वेणीगुणेन च चलद्वलयीकृतेन।
हेलाहितभ्रमरकभ्रममण्डलीभिश्छत्त्रत्रपं रचयतीव चिरं नतभ्रूः॥ 53 ॥
मुक्ते काञ्चनकुण्डले निपतिते माणिक्यभूषामणौ कीर्णे केलिसरोरुहे विगलिते मुक्ताकलापे सति।
निःश्वस्याम्बुजलोचनाभ्रमरिकानृत्यावसाने पुनः प्राणेशच्युतिशङ्कयेव हृदये हस्तारविन्दं ददौ॥ 54 ॥