०१ शरत्समयस्वभावाख्यानम्

दर्शन्ति शरन्नद्यः पुलिनानि शनैः शनैः।
नवसङ्गमसव्रीडा जघनानीव योषितः॥ 4 ॥
एकेन चुलुकेनाब्धिर्निपीतः कुम्भजेन यत्।
तस्योदयेऽन्तः कालुष्यं त्यजन्त्यापो भयादिव॥ 5 ॥
पाथोदजालजटिलं मलिनं शरदङ्गना।
अम्बरं धावयामास चन्द्रिकाचयवारिभिः॥ 6 ॥
धन्याः शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान्।
प्रासादान् स्त्रीसखाः पौराः केदारांश्च कृषीवलाः॥ 7 ॥
नमिताः फलभारेण न मिताः शालमञ्जरीः।
केदारेषु हि पश्यन्तः के दारेषु विनिस्पृहाः॥ 8 ॥
हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा।
तविमलाः कुमुदानीव तारकाः शरदागमे॥ 9 ॥
राजीवमिव राजीवं जलं जलमिवाजनि।
चन्द्रश्चन्द्र इवातन्द्रः शरत् समुदयोद्यमे॥ 10 ॥
काशाः क्षीरनिकाशा दधिशरवर्णानि सप्तपर्णानि।
नवनीतनिभश्चन्द्रः शरदि च तक्रप्रभा ज्योत्स्ना॥ 11 ॥
द्वयमिदमत्यन्तसमं नीचप्रभविष्णुता शरच्चेयम्।
क्षेत्रेभ्यः प्राप्य फलं खलेषु निःक्षिप्यते यस्याम्॥ 12 ॥
अथ प्रसन्नेन्दुमुखी सिताम्बरा समाययावुत्पलपत्त्रलोचना।
सपङ्कजा श्रीरिव गां निषेवितुं सहंसबालव्यजना शरद्वधूः॥ 13 ॥
समुल्लसत्पङ्कजलोचनेन विनोदयन्ती तरुणानशेषान्।
शुद्धाम्बरा गुप्तपयोधरश्रीः शरन्नवोढेव समाजगाम॥ 14 ॥
पयोदकेशेषु विकृष्य रोषान्निःकास्य सा कोकनदायताक्षी।
वर्षावधूं स्वां श्रियमुन्नयन्ती प्रौढा सपत्नीव शरच्चकाशे॥ 15 ॥
चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता।
कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः॥ 16 ॥
ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम्।
प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार॥ 17 ॥
उपैति सस्यं परिणामरम्यतां नदीरनौद्धत्यमपङ्कता महीम्।
नवैर्गुणैः सम्प्रति संस्तवस्थिरं तिरो हितं प्रेम घनागमश्रियः॥ 18 ॥
पतन्ति नास्मिन्विशदाः पतत्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः।
तथापि पुष्णाति नभःश्रियं परां न रम्यमाहार्यमपेक्षते गुणम्॥ 19 ॥
विपाण्डुभिर्म्लानतया पयोधरैश्च्युताचिराभागुणहेमदामभिः।
इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते॥ 20 ॥
विहाय वाञ्छामुदिते महात्ययादरक्तकण्ठस्य रुते शिखण्डिनः।
श्रुतिः श्रयत्यन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न सम्स्तवः॥ 21 ॥
अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः।
विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवासितोत्पलम्॥ 22 ॥
विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः।
असक्तमूधांसि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः॥ 23 ॥
जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेयुषी।
द्युतिं समग्रां समितिर्गवामसावुपैति मन्त्रैरिव संहिताहुतिः॥ 24 ॥
कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने।
इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम्॥ 25 ॥
असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि।
उपैति शुष्यन्कलभः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम्॥ 26 ॥
अमी समुद्भूतसरोजरेणुना हृता हृतासारकणेन वायुना।
उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः॥ 27 ॥
मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कमलस्य बिभ्रती।
शुकावलिर्व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदोऽनुगच्छति॥ 28 ॥
ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम्।
जलदकालमबोधकृतं दिशामपरथाप रथावयवायुधः॥ 29 ॥
स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङ्कगतां दयितामिव।
शरदमच्छगलद्वसनोपमाक्षमघनामघनाशनकीर्तनः॥ 30 ॥
जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः।
जलजराजिषु नैद्रमदिद्रवन्न महतामहताः क्व च नारयः॥ 31 ॥
समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम्।
शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम्॥ 32 ॥
तनुरुहाणि पुरोविजितध्वनेर्धवलपक्षविहङ्गमकूजितैः।
जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः॥ 33 ॥
अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि।
विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः॥ 34 ॥
कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेसरचारुभिः।
प्रियविमानितमानवतीरुषां निरसनै रसनैरवृथार्थता॥ 35 ॥
मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः।
धृतनवातमपुत्सुकतामतो न कमलं कमलम्भयदम्भसि॥ 36 ॥
विगतसस्यजिघत्समघट्टयत्कलमगोपधूर्न मृगव्रजम्।
श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः॥ 37 ॥
कृतमदं निगदन्त इवाकुलीकृतजगत्त्रयमूर्जमतङ्गजम्।
ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः॥ 38 ॥
तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्त्रमिवाकृतज्ञः।
तोयं प्रसीदति मुनेरिव चित्तवृत्तिः कामं दरिद्र इव शोषमुपैति पङ्कः॥ 39 ॥
आसादितप्रकटिनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः।
उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव सम्भृतबन्धुजीवः॥ 40 ॥
वृद्धाङ्गनेन विजहौ सरिदुद्धतत्वं वेदान्तिनामिव मनः शुचि नीरमासीत्।
चन्द्रे प्रभा युवतिवक्त्र इवाद्भुताभूद्विद्वत्कवित्वमिव केकिरुतं न रेजे॥ 41 ॥
मधुमधुरिमभङ्गीं भेजिरे हंसनादास्तुहिनपटललीलां लेभिरे वारिवाहाः।
क्षितिरभवदपङ्का किं च रोलम्बबालावलिकलितनलिन्यः शैवलिन्यस्तदासन्॥ 42 ॥
स्फुटं स्फुटपलाशवत्सुभगभासिचञ्चूपुटे विपाककपिशीकृताः कलममञ्जरीर्बिभ्रती।
बभौ दिवि शुकावलिः कुवलयच्छविर्जङ्गमा स्वभावहृदयङ्गमा विबुधचापलक्ष्मीरिव॥ 43 ॥
अपाकृत्याशेषाण्यपि च घनजालानि परितस्तमोधूमस्तोमोद्भवमलिनिमानं च तदनु।
शरच्चन्द्रः शिल्पी रतिपतिमुदेऽसौ निजकरैः सुधासन्दोहार्द्रैर्भुवनभवनं पाण्डुरयति॥ 44 ॥
रम्यं हर्म्यतलं नवाः सुनयना गुञ्जद्द्विरेफालताः प्रोन्मीलन्नवमालतीसुरभयो वाताः सचन्द्राः क्षपाः।
यद्येतानि जयन्ति हन्ति परितः शस्त्राण्यमोघानि मे तद्भोः कीदृगसौ विवेकविभवः कीदृक्प्रबोधोदयः॥ 45 ॥
अर्धं सुप्तो निशायाः सरभससुरतायाससन्नश्लथाङ्गः प्रोद्भूतासह्यतृष्णो मधुमदविरतौ हर्म्यपृष्ठे प्रबुद्धः।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दपुण्यः॥ 46 ॥
चेतः कर्षन्ति सप्तच्छदकुसुमरसासारसौरभ्यलुभ्यद्भृङ्गीसङ्गीतभङ्गिश्रुतिसुभगदिशो वासराः शारदीनाः।
किं च व्याकोशपङ्केरुहमधुरमुखीं सञ्चरच्चञ्चरीकश्रेणीवेणीसनाथां रमयति तरुणः पद्मनीमंशुमाली॥ 47 ॥