०७ हंसः

तटमुपगतं पद्मे पद्मे निवेशितमाननं प्रतिपुटकिनीपत्त्रच्छायां मुहुर्मुहुरासितम्।
मुहुरुपगतैरस्रैः कोष्णीकृता जलवीचयो जलदमलिनां हंसेनाशां विलोक्य पिपासता॥ 111 ॥