अदृष्टपूर्वमस्माभिर्यदेतद्दृश्यतेऽधुना।
विषं विषधरैः पीतं मूर्छिताः पथिकाङ्गनाः॥ 97 ॥
सखि हे पश्य रसमयं जलधरसमयं समुन्नद्धम्।
विलसति कापि बलाका कापि बलाका मुदं धत्ते॥ 98 ॥
शिशिरसीकरवाहिनी मारुते चरति शीतभयादिव सत्वरः।
मनसिजः प्रविवेश वियोगिनीहृदयमाहितशोकहुताशनम्॥ 99 ॥
एष्यन्त्यवश्यमधुना हृदयाधिनाथ मुग्धा मुधा कुरुत मा विविधं विलापम्।
इत्थं शशंसुरिव गर्जितकैतवेन पाथोधराः पथिकपङ्कजलोचनाभ्यः॥ 100 ॥
आकर्णितानि रसितानि यया प्रसर्पत्प्रद्युम्नराजरथनिःस्वनसोदराणि।
उच्चै रणच्चरणनूपुरया पुरन्ध्र्या क्षिप्रं प्रियं कुपितयापि तयाभिसस्रे॥ 101 ॥
प्रणतिभिरपि पत्युः प्रार्थनाभिश्च सख्याः क्षणमपि न मनस्तो मानिनी मानमौज्झत्।
तमसमशरशस्त्रीभूतगानप्रकारः फणिनमिव शिखण्डी किं न खण्डीचकार॥ 102 ॥
नभसि जलदलक्ष्मीं सास्रया वीक्ष्य दृष्ट्या प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथञ्चित्।
मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं तदनु कृतवती सा यत्र वाचो निवृत्ताः॥ 103 ॥
विरमत घनाः किं वो वृष्ट्या मुधैव विसृष्टया व्रजत ककुभं कामप्यन्यां मनोरुचिरामतः।
न तदिह वनं नासौ मार्गो च तच्च धरातलं विरहगलितैस्तन्व्या यन्न प्लुतं नयनाम्बुभिः॥ 104 ॥
प्रसरदलकाकीर्णे कर्णे न केकिरुतं श्रुतं श्वसितविजितो वातो घ्रातो न वा कुटजोत्कटः।
न च परिचितासावासम्पत्स्नुताश्रुणि लोचने तदपि किमपि प्रावृट्श्यामा धुनोति वियोगिनीः॥ 105 ॥
मेघैर्व्योम नवाम्बुभिर्वसुमती विद्युल्लताभिर्दिशो धाराभिर्गगनं वनानि कुटजैः पूरैर्वृता निम्नगाः।
एकां घातयितुं वियोगविधुरां दीनां वराकीं स्त्रियं प्रावृट्काल हताश वर्णय कृतं मिथ्या किमाडम्बरम्॥ 106 ॥
वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः सोत्साहा नववारिगर्भगुरवो मुञ्चन्तु नादं घनाः।
मग्नां कान्तवियोगशोकजलधौ मां वीक्ष्य दीनाननां विद्युत्किं स्फुरसि त्वमप्यकरुणे स्त्रीत्वे समाने सति॥ 107 ॥
अम्भोवाहमुरद्विषो निवसनं ध्वान्ताद्रिदिव्यौषधी कन्दर्पस्य विलासचम्पकधनुर्वर्षालतामञ्जरी।
लेखा व्योमकषोपले विरचिता चामीकरस्य स्फुरद्धाम्नः पान्थविलासिनीजनमनःकम्पाय शण्पाभवत्॥ 108 ॥
श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्लथाङ्गं पतित्वा शय्यायां भूमिपृष्ठे करतलधृतया दुःखितालीजनेन।
सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा॥ 109 ॥