०४ वर्षापथिकाः

उपरि पयोधरमाला दूरे दयिता किमेतदापतितम्।
हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि॥ 81 ॥
उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः।
क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयतु॥ 82 ॥
किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम्।
इत्युदीक्ष्य नवमेघमालिकां न प्रयाति पथिकः स्वमन्दिरम्॥ 83 ॥
शिखिनि कूजति गर्जति तोयदे स्फुटति जातिलताकुसुमाकरे।
अहह पान्थ न जीवति ते प्रिया नभसि मासि न यासि गृहं यदि॥ 84 ॥
रसति तरुणीकेशश्यामे पयोभृति निर्भरं स्फुटति चपले वारं वारं क्षणद्युति तेजसि।
उपगुरुजनं मन्ये दैन्यात्पराङ्मुखसुप्तया निभृतनिभृतं मन्दोच्छ्वासं तया बत रुद्यते॥ 85 ॥
निशीथे लीनानां झटिति तडितां वीक्ष्य विषयं घनानामाभोगं रसिकपथिकेनोन्मुखदृशा।
न गीतं सोत्कण्ठं न च रुदितमुत्कण्ठतरलं न मुक्ता निःश्वासाः स्फुरदनुमतं किं तु हृदयम्॥ 86 ॥
यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः।
यथा विद्युज्ज्वालोल्लसितपरिपिङ्गाश्च ककुभस्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः॥ 87 ॥
बर्ही रौति बका रटन्ति तडितो भ्राम्यन्त्यतिव्याकुला विक्रोशन्ति घना घना च विलपत्युच्चैर्बलाकावलिः।
आत्मानं मरुतः क्षिपन्ति सलिलासारः पतत्यग्रतो मुक्त्वा प्रावृषि साहसैकरसिके याति प्रियामध्वगे॥ 88 ॥
नृत्यच्चन्द्रकिणि क्वणन्मधुलिहि श्यामायमानक्षितौ धीरध्वानपयोमुचि प्रविलसत्सौदामिनीदामनि।
धाराम्भःकणवाहिशीतमरुति प्राणान्पयोदागमे हाहा हास्यति मुग्धिका नववधूरित्यध्वगः क्रन्दति॥ 89 ॥
श्रुत्वा बालमृगीविलोलनयना शब्दं घनानां पुरा भीत्या वक्षसि संश्रितापि निबिडं भूयः समालिङ्गति।
या वक्त्रादपहृत्य रोपितवती कण्ठे ममैवाननं सा द्रक्ष्यत्यधुना कथं नु विरहे बाला पयोदावलीम्॥ 90 ॥
रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया।
आस्तां जीवितहारिणः प्रवसनालापस्य सङ्कीर्तनं मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तो यथा॥ 91 ॥
ग्रामेऽस्मिन्पथिकाय पान्थ वसतिर्नैवाधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्तो युवा।
तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति॥ 92 ॥
भ्रातः पान्थ कुतो भवान्नगरतो वार्ता नवा वर्तते बाढं ब्रूहि युवा पयोदसमये त्यक्त्वा प्रियां जीवति।
सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न सम्भाव्यते॥ 93 ॥
धीरं वारिधरस्य वारिकिरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता।
अध्वन्येन विमुक्तकण्ठकरुणं रात्रौ तथा क्रन्दितं ग्रामीणैः पुनरध्वगस्य वसतिर्ग्रामे निषिद्धा यथा॥ 94 ॥
भ्रातः पान्थ प्रसीद प्रतिविरम समुत्सृज्य बालामकाण्डे गन्तुं बाष्पाम्बुपूरप्लुतनयनमुखीं प्रेयसीं ते न युक्तम्।
वृत्तं ग्रामेऽतिकष्टं यदिह गृहपतेः प्रोषितस्य प्रियाया मुक्ताक्रन्दांस्तदेतान् सलिलवितरणे निर्गतान् पश्य बन्धून्॥ 95 ॥
भ्रातः पान्थ प्रसीद प्रतिविरम समुत्सृज्य बालामकाण्डे गन्तुं बाष्पाम्बुपूरप्लुतनयनमुखीं प्रेयसीं ते न युक्तम्।
वृत्तं ग्रामेऽतिकष्टं यदिह गृहपतेः प्रोषितस्य प्रियाया मुक्ताक्रन्दांस्तदेतान् सलिलवितरणे निर्गतान् पश्य बन्धून्॥ 95 ॥
भद्रात्र ग्रामके त्वं वससि परिचयस्तेऽस्ति जानासि वार्तामस्मिन्नध्वन्यजाया जलधररसितोत्का न काचिद्विपन्ना।
इत्थं पान्थः प्रवासावधिदिनविगमापायशङ्की प्रियायाः पृच्छन्वृत्तान्तमारात्स्थितनिजभवनोऽप्याकुलो न प्रयाति॥ 96 ॥