०३ वर्षावायवः

एते ते दुरतिक्रमक्रममिलद्धर्मोर्मिमर्मच्छिदः कादम्बेन रजोभरेण ककुभो रुन्धन्ति झञ्झानिलाः।
गाढारम्भिगूढनीरदघटासङ्घट्टनीलीभवद्व्योमक्रोडकटाहपातुकपयोवेणीकणग्राहिणः॥ 78 ॥
धाराधौतं धुनानाः शशधरधवलं केसरं केतकीनां कैलासे किन्नरीणां चलदलकलतालास्यलीलां दधानाः।
आमूलं मानिनीनां मनसि विनिहितं मानमुन्मूलयन्तो वान्त्येते वारिवाहव्यतिकरशिशिराः प्रावृषेण्याः समीराः॥ 79 ॥
गोकर्णं गाहमानाः पृथुतरपृषतग्राहिणः शम्बरौघानाकर्षन्तो दिगन्तानपि च विदधतः कन्दलीसुप्रचारान्।
एते धावन्ति वार्धश्रवसमुरुधनुर्धारयन्तः समन्तादावृण्वन्तोऽभ्रवीथिं वनमिव शबरभ्रान्तिभाजोऽम्बुवाहाः॥ 80 ॥