सौकर्यमिन्दीवरलोचनानां दोलासु लोलासु यदुल्ललास।
यदि प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभूः॥ 73 ॥
प्रसार्य पादौ विहितस्थितीनां दोलासु लोलांशुकपल्लवानाम्।
मनोरथानामपि यन्न गम्यं तद्द्रष्टुमापुः सुदृशां युवानः॥ 74 ॥
उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बबिम्बाः।
दोलाविलासेन जितश्रमत्वात्प्रकर्षमापुः पुरुषायितेषु॥ 75 ॥
दृशा विदधिरे दिशः कमलराजिनीराजिताः कृता हसितरोचिषा हरति चन्द्रकावृष्टयः।
अकारि हरिणीदृशः प्रबलदण्डकप्रस्फुरद्वपुर्विपुलरोचिषा वियति विद्युतां विभ्रमः॥ 76 ॥
प्रत्यासन्नमुखी कराम्बुजयुगप्रेङ्खेलितो प्रेङ्खिकामारुह्येयमुदस्तहारलतिकाव्याविद्धतुङ्गस्तनी।
दृष्टादृष्टमुखा गतागतवशादालोलमानांशुका तन्वङ्गी गगने करोति पुरतः शातहृदं विभ्रमम्॥ 77 ॥