चलद्बलाकादशनाभिरामः परिस्रवद्वारिमदाम्बुधारः।
आहन्यमानस्तडिदङ्कुशेन स्मरस्य दध्वान घनद्विपेन्द्रः॥ 1 ॥
या कामिनी सा यदि मानिनी स्यात्स्मरस्य राज्ञो ह्यपराधिनी स्यात्।
इतीव दण्डैः किमु ताड्यतेऽसौ कादम्बिनी कामनृपस्य ढक्का॥ 2 ॥
चन्द्रबिम्बरविबिम्बतारकामण्डलानि घनमेघडम्बरैः।
भक्षितानि जलदोदरेषु तद्रोदनध्वनिरिवैष गर्जितम्॥ 3 ॥
निद्रितस्य बत शम्बरद्विषो जागराय किमु वारिवाहकः।
ऊर्जितं दधदतीव गर्जितं सम्भ्रमन्नभसि सम्भ्रमाद्ययौ॥ 4 ॥
शीतलादिव सन्त्रस्तं प्रावृषेण्यान्नभस्वतः।
नभो बभार नीरन्ध्रं जीमूतकुलकम्बलम्॥ 5 ॥
स्फुरन्तः पिङ्गलाभासो धरण्यामिन्द्रगोपकाः।
सरक्तवान्तपान्थस्त्रीजीवा इव चकाशिरे॥ 6 ॥
पतत्यविरतं वारि नृत्यन्ति च कलापिनः।
अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति॥ 7 ॥
1उत्कण्ठयति मेघानां माला वर्गं 2कलापिनाम्।
यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः॥ 8 ॥
अस्थिरमनेकरागं गुणरहितं नित्यदुष्प्रापम्।
प्रावृषि सुरेन्द्रचापं विभाव्यते युवतिचित्तमिव॥ 9 ॥
नन्दयति कस्य न मनः सबलैर्घनधूलिधूसरच्छायैः।
आक्रम्य पुत्रकैरिव मलिनीकृतमम्बरं जलदैः॥ 10 ॥
आयाताः सखि वर्षा वर्षादपि यासु वासरो दीर्घः।
3दिशि दिशि नीरतरङ्गो नीरतरङ्गो ममापि हृदयेशः॥ 11 ॥
गर्जति वारिदपटले वर्षति नयनारविन्दमबलायाः।
भुजवल्लिमूलसेके विरहलता पल्लवं सूते॥ 12 ॥
अतिशयितकदम्बोऽयं मोदकदम्बानिलो वहति।
वियदम्बुदमेदुरितं मे दुरितं पश्य नागतो दयितः॥ 13 ॥
शमयति जलधारधारा चातकयूनां तृषं चिरोपनताम्।
क्षपयति च वधूलोचनजलधारा कामिनां प्रवासरुचिम्॥ 14 ॥
आस्वाद्य निर्विशेषं विरहिवधूनां मृदूनि मांसानि।
करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनि4॥ 15 ॥
वर्षासु जाता नवयौवनश्रीराशावधूः प्रौढपयोधराभूत्।
पुष्पोद्गमोऽजायत मालतीनां बभूवुरस्पृश्यतमास्तटिन्यः॥ 16 ॥
वसन्तविश्लेषमपारयन्त्या भुवो निदाघस्मरतापशान्त्यै।
आशावयस्याभिरुदाह्रियन्ते पयोदनीलोत्पलपल्लवानि॥ 17 ॥
घनोद्यमे गाढतमेऽन्धकारे न कोऽपि निर्णेतुमहः शशाक।
स्पृशन्मुहुः किन्तु करेण नाभीसरोजमा1भीरकुलाधिनाथः॥ 18 ॥
कामेन कामं प्रहिता जवेन प्रावृट् चचाल त्रिजगद्विजेतुम्।
किं चन्द्रबिम्बं दधि भक्षयन्ती सन्धारयन्ती हरितः शुभाय॥ 19 ॥
निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः।
धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं 2ररास॥ 20 ॥
सजलजलधरं नभो विरेजे विवृतिमियाय रुचिस्तडिल्लतानाम्।
व्यवहितरतिविग्रहैर्वितेन जलगुरुभिः स्तनितैर्दिगन्तरेषु॥ 21 ॥
परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम्।
विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपां निपातः॥ 22 ॥
प्रतिदिशमभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन।
नव इव विबभौ स चित्तजन्मा गतधृतिराकुलितश्च जीवलोकः॥ 23 ॥
व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा।
परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम्॥ 24 ॥
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डितां निनादे।
जन इव न धृतेश्चचाल जिष्णुर्नहि महतां सुकरः समाधिभङ्गः॥ 25 ॥
धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा।
शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे॥ 26 ॥
समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या।
श्रियमतिशयिनीं समेत्य जग्मुर्गुणमहतां महते गुणाय योगः॥ 27 ॥
सरजसमपहाय केतकीनां प्रसवमुपान्तिकनीपरेणुकीर्णम्।
प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि॥ 28 ॥
मुकुलितमतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु।
अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः॥ 29 ॥
रटतु जलधरः पतन्तु धाराः स्फुरतु तडिन्मरुतोऽपि वान्तु शीताः।
इयमुरसि महौषधीव कान्ता निखिलभयप्रतिघातिनी स्थिता मे॥ 30 ॥
स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा।
जलधरावलिरप्रतिपालितस्वसमयासमयाज्जगतीधरम्॥ 31 ॥
गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः॥ 32 ॥
अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम्।
धृतधनुर्वलयस्य पयोमुचः शबलिमा वलिमानमुषो वपुः॥ 33 ॥
द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी।
नवतमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः॥ 34 ॥
पटलमम्बुमुचां पथिकाङ्गनां सपदि जीवितसंशयमेष्यती।
सनयनाम्बुसखीजनसम्भ्रमाद्विधुरबन्धुरबन्धुरमैक्षत॥ 35 ॥
प्रवसतः सुतरामुदकम्पयद्विदलकन्दलकम्पनलालितः।
नमयति स्म वनानि मनस्विनीजनमनोनमनो घनमारुतः॥ 36 ॥
जलदपङ्क्तिरनर्तयदुन्मदं कलविलापि कलापिकदम्बकम्।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसम्पदा॥ 37 ॥
नवकदम्बरजोरुणिताम्बरैरधिपुरन्ध्रिशिलीन्ध्रसुगन्धिभिः।
मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे॥ 38 ॥
शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम्।
प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे॥ 39 ॥
द्विरददन्तवलक्षमलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम्।
घनघनौघविघट्टनया दिवः कृशशिखं शशिखण्डमिव च्युतम्॥ 40 ॥
दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः।
कुटजपुष्पपरागकणाःस्फुटं विदधिरे दधिरेणुविडम्बनाम्॥ 41 ॥
नवपयःकणकोमलमालतीकुसुमसन्ततिसन्ततसङ्गिभिः।
प्रचलितोडुनिभैः परिपाण्डिमा शुभरजोभरजोऽलिभिराददे॥ 42 ॥
निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशाम्।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः॥ 43 ॥
प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः॥ 44 ॥
विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति।
अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः॥ 45 ॥
प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः।
विद्युतां नभसि नाट्यमण्डले कुर्वते स्म कुसुमाञ्जलिश्रियम्॥ 46 ॥
महीमण्डलीमण्डपीभूतपाथोधरारब्धहर्षासु वर्षासु सद्यः।
कदम्बे प्रसूनं प्रसूने मरन्दो मरन्दे मिलिन्दो मिलन्दे मदोऽभूत्॥ 47 ॥
उन्निद्रकन्दलदलान्तरलभ्यमानगुञ्जन्मदान्धमधुपे घनमेघकाले।
स्वप्नेऽपि यः प्रवसति प्रविहाय कान्तां तस्मै विषाणरहिताय नमो वृषाय॥ 48 ॥
घनसमयमहीभृत्पत्तनस्याम्बरस्य त्रिभुवनपतिचापं गोपुरत्वं प्रपेदे।
अपि विरसवचोभिः प्राप्तपङ्काभिषेकाः कुकवय इव भेकाः खेदयन्ति स्म लोकान्॥ 49 ॥
घनतरघनवृन्दच्छादिते व्योम्नि लोके सवितुरथ हिमांशोः सङ्कथैव व्यरंसीत्।
रजनिदिवसभेदं मन्दवाताः शशंसुः कुमुदकमलगन्धानाहरन्तः क्रमेण॥ 50 ॥
घनतरघनवृन्दच्छादिते व्योम्नि लोके सवितुरथ हिमांशोः सङ्कथैव व्यरंसीत्।
विरहमनुभवन्ती सङ्गमं चापि भर्त्रा रजनिदिवसभेदं चक्रवाकी शशंस॥ 51 ॥
अथ नभसि निरीक्ष्य व्याप्तदिक्चक्रवालं सजलजलदजालं प्राप्तहर्षप्रकर्षः।
विहितविपुलबर्हाडम्बरो नीलकण्ठो मदमृदुकलकण्ठो नाट्यमङ्गीचकार॥ 52 ॥
अभिनवयवसश्रीशालिनि क्ष्मातलेऽस्मिन्नतिशयपरभागं भेजिरे जिष्णुगोपाः।
कुवलयशयनीये मुग्धमुग्धेक्षणाया मणय इव विमुक्ताः कामकेलिप्रसङ्गात्॥ 53 ॥
मलिनहुतभुग्धूमश्यामैर्दिशो मलिना घनैरविरलतृणश्यामा भूमिर्नवोद्गतकन्दलैः।
सुरतसुभगो नूनं कालः स एष समागतो मरणशरणा यस्मिन्नेते भवन्ति वियोगिनः॥ 54 ॥
1क्षपां 2क्षामीकृत्य प्रसभमपहृत्याम्बु सरितां प्रताप्योर्वीं कृत्स्नां तरुगहनमुच्छोष्य सकलम्।
क्व सम्प्रत्युष्णांशुर्गत इति तदन्वेषणपरास्त3डिद्दीपालोका दिशि दिशि चरन्तीव जलदाः॥ 55 ॥
मेघाटोपैः स्तनितसुभगं वीक्ष्य खं हस्तिदन्तैः कृत्वा भित्तीनुपरिसदनं चामरैश्छादयित्वा।
कर्पूरैस्ता मृगमदरसैर्भूमिमालिप्य शेते सैहे चर्मण्युरसि दयिताबाहुरूढः पुलिन्दः॥ 56 ॥
उपैति घनमण्डली नदति नीलकण्ठावली तडिल्लसति सर्वतो वहति केतकीमारुतः।
इतोऽपि यदि नागतः प्रियतमो नु मन्येऽधुना दधाति मकरध्वजस्त्रुटितशिञ्जिनीकं धनुः॥ 57 ॥
दिशां हाराकाराः शमितशमभाराः शमवतामसूचीसञ्चाराः कृतमदविकाराश्च शिखिनाम्।
हृताध्वव्यापारास्तुहिनकणसारा विरहिणीमनःकीर्णाङ्गाराः किरति जलधारा जलधरः॥ 58 ॥
देवे वर्षत्यशनपवनव्यापृता वह्निहेतोर्गेहाद्गेहं फलकनिचितैः सेतुभिः पङ्कभीताः।
नीध्रप्रान्तानविरलजलान्पाणिभिस्ताडयित्वा शूर्पच्छत्रस्थगितशिरसो योषितः सञ्चरन्ति॥ 59 ॥
आकर्ण्य स्मरयौवराज्यपटहं जीमूतधीरध्वनिं नृत्यत्केकिकुटुम्बकस्य दधतं मन्दां मृदङ्गक्रियाम्।
उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता हर्षेणेव समुत्थिता वसुमती दध्रे शिलीन्ध्रध्वजान्॥ 60 ॥
वज्रेण त्रिजगत्पतेर्बलरिपोरच्छिन्नपक्षाः पुरा ये भीता निममज्जुरब्धिजठरे तांल्लूनपक्षान् गिरीन्।
आश्वास्य व्रणदुःखजां शमयितुं तेषामुदग्रव्यथामुत्तस्थुर्जलदच्छलेन जलधैरूर्ध्वेऽम्भसः पर्वताः॥ 61 ॥
मन्दं मुद्रितपांशवः परिपतज्झंकारिझञ्झामरुद्वेनध्वस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः।
कर्मव्यग्रकुटुम्बिनीकुचतटस्वेदच्छिदः प्रावृषः प्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोबिन्दवः॥ 62 ॥
किञ्चिन्मुद्रितपांशवः शिखिकुलैरुत्कण्ठमालोकिता जीर्णावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः।
एते ते निपतन्ति नूतनघनप्रावृड्भरारम्भिणो विच्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः॥ 63 ॥
काले नीलबलाहके सतडिति प्रीतिप्रदे बर्हिणामाश्चर्यं कथयामि वः शृणुत भो यद्वृत्तमस्मद्गृहे।
सौभाग्यव्ययशङ्कयैकशयने कान्ताप्रियाभ्यामहो मानिभ्यां बत रात्रिमेव सकलां चीर्णं प्रवासिव्रतम्॥ 64 ॥
उत्फुल्लार्जुनसर्जवासितवहत्पौरस्त्यझञ्झानिलप्रेङ्खोलत्स्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः।
धारासिक्तवसुन्धरासुरभयः प्राप्तास्त एवाधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः॥ 65 ॥
आच्छन्ने क्षितितेजसी मनसिजव्यापारमेयं मनः स्वात्मा च द्वयमेतदस्ति दशमं द्रव्यं परेषां तमः।
कालाकाशदिशां निरस्तमधुना नामापि वर्षागमे द्रव्यं वारि गुणश्च वारिदरवः कर्मापि वारिक्रिया॥ 66 ॥
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते।
जालैः शीकरशीतलैश्च मरुतो रत्यन्तखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे॥ 67 ॥
उद्योगः क्षयमेति हन्त सहसा जाड्यं समुज्जृम्भते मित्त्रस्यापि च दर्शनं भवति नो किं वान्यदाचक्ष्महे।
यल्लोकस्पृहणीयतां गतमभूत्तज्जीवनं व्यर्थतां प्राप्तं येन दुनोति तन्मम मनो दुर्दैववद्दुर्दिनं॥ 68 ॥
सर्वत्रोद्गतकन्दला वसुमती वृद्धिर्जलानां परा जातं निष्कमलं जगत्सुमलिनैर्लब्धा घनैरुन्नतिः।
सर्पन्ति प्रतिमन्दिरं द्विरसनाः सन्त्यक्तमार्गो जनो वर्षाणां च कलेश्च सम्प्रति जयत्येकैव राज्यस्थितिः॥ 69 ॥
नैतद्वारिदगर्जितं रतिपतिः प्रस्थानढक्कारवो नैते वारिधराः स्रवन्मदजलास्तत्सिन्धुराप्रोद्धुराः।
नैषा विद्युदियं विभाति रुचिरा तच्चन्द्रहासप्रभा मन्ये मानिनि मानदुर्गमधुना जेतुं किमायात्यसौ॥ 70 ॥
दृष्ट्वाडम्बरमम्बरे घनकृतं सौदामिनीनर्तकीनृत्यारम्भमृदङ्गमङ्गलरवं श्रुत्वा च तद्गर्जितम्।
पुष्प्यत्पुष्पभरानताङ्गणतरुस्कन्धावसद्वायसक्वाणाकर्णनसोत्सवप्रियतमं पान्था ययुर्मन्दिरम्॥ 71 ॥
सद्मन्येव निरन्तरं निवसतिर्मित्त्राद्यनालोकनं पन्थाः पङ्कसमाकुलः कलुषता वारां सदा दुर्दिनम्।
एवं यद्यपि दूषणानि तदपि स्वर्भूजनोल्लासकृत्सस्योत्पत्तिनिमित्ततैकगुणतः प्रावृट् प्रपेदे यशः॥ 72 ॥