रेजे पुष्पैर्ग्रीष्ममासाद्य मल्ली मल्लीं सद्यः सम्श्रयन्ते स्म भृङ्गाः।
भृङ्गैस्तत्रारम्भि हर्षेण गानं गाने लौल्यं लेभिरे योगिनोऽपि॥ 1 ॥
अत्युल्लसद्बिसरहस्ययुजा भुजेन वक्त्रेण शारदसुधांशुसरोरुहेण।
पीयूषपोषसुभगेन च भाषितेन त्वं चेत्प्रसीदसि मृगाक्षि कुतो निदाघः॥ 2 ॥