०५ ग्रीष्मवायवः

आध्मातोद्धतदाववह्निसुहृदः कीर्णोष्णरेणूत्कराः सन्तप्ताध्वगमुक्तखेदविषमश्वासोष्णसम्वादिनः।
तृष्णार्ताजगरायतास्यकुहरक्षिप्रप्रवेशोत्कटा भ्रूभङ्गैरिव तर्जयन्ति पवना दग्धस्थलीकज्जलैः॥ 124 ॥
कारञ्जीं कुञ्जयन्तो निजजरठरवव्यञ्जितावीरकोशानुत्पाकान्कृष्णलानां पृथुसुषिरगताञ्शिम्बिकान्पाटयन्तः।
झिल्लीकाझल्लरीणां बधिरितककुभं झंकृतं खे क्षिपन्तः सिञ्जानाश्वत्थपत्त्रप्रकरझणझणाराविणो वान्ति वाताः॥ 125 ॥
व्योमव्यालोलमुक्ताफलधवलगलद्बिन्दुसन्दोहगर्भानम्भोदान् भर्त्सयित्वा दिशि दिशि भुवने भीतिमुद्भावयन्तः।
एते रक्षोमृगाक्षीगतलुलितमदक्षोभसम्रम्बरूक्षा वाताः पातालकुक्षिस्थितमपि सलिलं तत्क्षणाद्भक्षयन्ति॥ 126 ॥