यथोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः।
तथा प्रपापालिकापि धारां वितनुते तनुम्॥ 117 ॥1
अङ्गुल्यग्रनिरोधतस्तनुतरां धारामियं कुर्वती कर्कर्या नितरां पयोनिपुणिका दातुं प्रपापालिका।
विश्लिष्टाङ्गुलिना करेण दशनापीडं शनैः पान्थ हे निष्पन्दोर्ध्वविलोचनस्त्वमपि हा जानासि पातुं पयः॥ 118 ॥
दूरादेव कृतोऽञ्जलिर्न तु पुनः पानीयपानोचितो रूपालोकनकौतुकात्प्रचलितो मूर्धा न शान्त्या तृषः।
रोमाञ्चोऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्यादपामक्षुण्णो विधिरध्वगेन विहितो वीक्ष्य प्रपापालिकाम्॥ 119 ॥
गन्तुं सत्वरमीहसे यदि पुनर्व्यालोलवेणीलतां द्रष्टुं वा स्वकुटुम्बिनीमनुदिनं कान्तां समुत्कण्ठसे।
तत्तुष्यन्नपि मुग्धमन्थरवलन्नेत्रान्तरुद्धाध्वगामेतां दूरत एव हे परिहर भ्रातः प्रपापालिकाम्॥ 120 ॥
मध्याह्नेऽतिखरे निदाघसमये तापोऽध्वनो वर्तते शीते कुञ्जतटे विचित्रविटपे भोः पान्थ विश्रम्यताम्।
एकाकी च भवानहं च तरुणी शून्या प्रपा वर्तते लज्जेऽहं ब्रुवती स्वयं च चतुरो जानासि कालोचितम्॥ 121 ॥
कस्येयं तरुणि 1प्रपा पथिक नः किं पीयतेऽस्यां 2पयो धेनूनामथ माहिषं पथिक रे वारः3 कथं मङ्गलः।
सोमो वाथ शनैश्चरोऽमृत4मिदं तत्तेऽधरे दृश्यते भो भोः पान्थ विलाससुन्दर सखे यद्रोचते तत् पिब॥ 122 ॥