०३ जलकेलिः

निजप्रियमुखभ्रान्त्या हर्षेणाचुम्बदम्बुजम्।
दष्टाधरा तु भृङ्गेण सीत्कारमकरोन्मृदुः॥ 59 ॥
ललितमुरसा तरन्ती तरलतरङ्गौघचालितनितम्बा।
विपरीतरतासक्ता किमदृश्यत सरसि या सख्या॥ 60 ॥
एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोढुमशक्नुवत्यः।
गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते॥ 61 ॥
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम्।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान्॥ 62 ॥
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु।
पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः॥ 63 ॥
आवर्तशोभा नतनाभिकान्तेर्भङ्ग्यो भ्रुवां द्वन्द्वचराः स्तनानाम्।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम्॥ 64 ॥
तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम्।
श्रोत्रेषु संमूर्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम्॥ 65 ॥
सन्दष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः॥ 66 ॥
एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः।
वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वहन्ति॥ 67 ॥
उद्बन्धकेशश्च्युतपत्त्रलेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः।
मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः॥ 68 ॥
उन्मृष्टपत्त्राः कलितालकान्ताः कण्ठेषु लग्ना जघनं स्पृशन्तः।
स्तनस्थलेष्वाहतिमादधाना गता वधूनां प्रियतां जलौघाः॥ 69 ॥
हृतोऽङ्गरागस्तिलकं विमृष्टं लब्धान्तरैरेभिरतीव मत्वा।
सुसंहितेनेति तदा जलानामदायि मध्यं न कुचद्वयेन॥ 70 ॥
निरीक्ष्य वेणीप्रतिबिम्बमेणीदृशो भुजङ्गभ्रममावहन्त्यः।
पतद्दुकूलं धुतबाहुमूलं झम्पाप्रकम्पाकुलिताः प्रचेलुः॥ 71 ॥
अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः।
पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा॥ 72 ॥
प्रशान्तघर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः।
ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः॥ 73 ॥
गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः।
मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान्निरासिरे॥ 74 ॥
विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो विगाढाः सखिभिर्मरुत्वतः।
कथञ्चिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे॥ 75 ॥
विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहितपीवरोरुभिः।
विभिद्यमाना विससार सारसानुदस्य तीरेषु तरङ्गसंहतिः॥ 76 ॥
शिलाघनैर्नाकसदामुरःस्थलैर्बृहन्निवेशैश्च वधूपयोधरैः।
तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा॥ 77 ॥
विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः।
अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः॥ 78 ॥
विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये।
हृतस्य शेषानिव कुङ्कुमस्य तान् विकत्थनीयान् दधुरन्यथा स्त्रियः॥ 79 ॥
प्रियेण सङ्ग्रथ्य विपक्षसन्निधावुपाहितां वक्षसि पीवरस्तने।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि॥ 80 ॥
असंशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रमणीभिरञ्जनम्।
हृतेऽपि तस्मिन्सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम्॥ 81 ॥
द्युतिं वहन्तो वनितावतंसका हृताः प्रलोबादिव वेगिभिर्जलैः।
उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः॥ 82 ॥
विपन्नलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि बिभ्रतीः श्रियम्।
निरीक्ष्य रामा बुबुधे नभश्चरैरलङ्कृतं तद्वपुषैव मण्डनम्॥ 83 ॥
तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः।
यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम्॥ 84 ॥
शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु।
नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु॥ 85 ॥
ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरमुज्झति।
मुहुः स्तनैस्तालसमं समाददे मनोरमं नृत्यमिव प्रवेपितम्॥ 86 ॥
श्रिया हसद्भिः कमलानि सस्मितैरलङ्कृताम्बुः प्रतिमागतैर्मुखैः।
कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यमवाप जाह्नवी॥ 87 ॥
परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम्॥ 88 ॥
भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी।
अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः॥ 89 ॥
तिरोहितान्तानि नितान्तमाकुलैरपां विगाहादलकैः प्रसारिभिः।
ययुर्वधीनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः॥ 90 ॥
करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा।
सखीषु निर्वाच्यमधार्ष्ट्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी॥ 91 ॥
प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः।
सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः॥ 92 ॥
उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम्।
मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे॥ 93 ॥
विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः।
सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धमंशुकम्॥ 94 ॥
निरञ्जने साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवम्।
नतभ्रुवो मण्डयति स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम्॥ 95 ॥
निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः।
निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे॥ 96 ॥
प्रियेण सिक्ता चरमं विपक्षतश्चकोप काचिन्न तुतोष सान्त्वनैः।
जनस्य रूढप्रणयस्य चेतसः किमप्यमर्षोऽनुनये भृशायते॥ 97 ॥
अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम्।
आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ॥ 98 ॥
निम्ननाभिकुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः।
तद्भवैः कुहुरुतैः सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम्॥ 99 ॥
सङ्क्षोभं पयसि पुनर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने।
विश्लेषं युगमगमद्रथाङ्गनोन्मारुद्वृत्तः क इव सुखावहः परेषाम्॥ 100 ॥
किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते तरुण्याः।
संशय्य क्षणमिति निश्चिकाय कश्चिद्बिब्बोकैर्बकसहवासिनां परोक्षैः॥ 101 ॥
योग्यस्य त्रिनयनलोचनानलार्चिर्निर्दग्धस्मरपृतनाधिराज्यलक्ष्म्याः।
कान्तायाः करकलशोद्यतैः पयोभिर्वक्त्रेन्दोरकृत महाभिषेकमेकः॥ 102 ॥
पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः।
सुश्रोण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनीसखीत्वम्॥ 103 ॥
नारीभिर्गुरुजघनस्थलाहतानामास्यश्रीविजितविकासिवारिजानाम्।
लोलत्वादपहरतां तदङ्गरागं सञ्जज्ञे स कलुष आशयो जलानाम्॥ 104 ॥
सौगन्ध्यं दधदपि काममङ्गनानां दूरत्वाद्गतमहमाननोपमानम्।
नेदीयो जितमिति लज्जयेव तासामालोले पयसि महोत्पलं ममज्ज॥ 105 ॥
प्रभ्रष्टैः सरभसमम्भसोऽवगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः।
आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि॥ 106 ॥
आस्माकी युवतिदृशामसौ तनोति च्छायैव श्रियमनपायिनीं किमेभिः।
मत्वैवं स्वगुणपिधानसाभ्यसूयैः पानीयैरिति विदधाविरेऽञ्जनानि॥ 107 ॥
निर्धौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः।
अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्यः॥ 108 ॥
अन्यूनं गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा।
प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरेव॥ 109 ॥
स्नान्तीनां बृहदमलोदबिन्दुचित्रौ रेजाते रुचिरदृशामुरोजकुम्भौ।
हाराणां मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव॥ 110 ॥
आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति।
कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुरापः॥ 111 ॥
दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपनां नखाङ्काः।
आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति॥ 112 ॥
कस्याश्चिन्मुखमनु धौतपत्त्रलेखं व्यातेने सलिलभरावलम्बिनीभिः।
किञ्जल्कव्यतिकरपिञ्जरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः॥ 113 ॥
अविरलमिदमम्भः स्वेच्छयोच्छालयन्त्या विकचकमलशोभोत्तानहस्तद्वयेन।
परिकलित इवार्घः कामबाणातिथिभ्यः सलिलमिव वितीर्णं बाललीलासुखेभ्यः॥ 114 ॥
जलविलुलितवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिस्नानमात्रोत्थिताभिः।
कनकरुचिरकुम्भश्रीमदाभोगतुङ्गस्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः॥ 115 ॥
एतस्याः करिकुम्भसन्निभकुचप्राग्भारपृष्ठे लुठद्गुञ्जागर्भगजेन्द्रमौक्तिकसरश्रेणीमनोहारिणि।
दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथं को वान्योऽपि विलीयते न सरसः सीमन्तिनीसङ्गमे॥ 116 ॥