०२ मध्याह्नः

एष सूर्यांशुसन्तप्तो मृगः कुतरुमाश्रितः।
साधुर्भाग्यपरिक्षीणो नीचं प्राप्येव सीदति॥ 33 ॥
मध्याह्ने नूनमापोऽपि तिग्मतापोपशान्तये।
दधुः कमलिनीपत्त्रमातपत्रमिवोपरि॥ 34 ॥
दुःसहसन्तापभयात् सम्प्रति मध्यस्थिते दिवसनाथे।
छायामिव वाञ्छन्ती छायापि गता तरुतलानि॥ 35 ॥
रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः।
अवाक्फणो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति॥ 36 ॥
अस्मद्रिपूणामनिलाशनानां दत्तो निवासः खलु चन्दनेन।
इतीव रोषाद्व्यजनस्य वायुर्व्यशोषयच्चन्दनमङ्गसम्स्थम्॥ 37 ॥
स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया।
अतनुमानपरिग्रहया स्थितं रुचिरया चिरयायिदिनश्रिया॥ 38 ॥
तरुणतरणितेजःपुञ्जसन्तप्तदेहः पतति जरठखङ्गः पल्वले पङ्कलेहः।
हरिरपि सलिलार्थी शङ्कया तस्य नीरं न पिबति न च याति क्लिश्यति प्राप्य तीरम्॥ 39 ॥
किरति मिहिरे विष्वद्रीचः करानतिवामनी स्थलकमठवद्देहच्छाया जनस्य विचेष्टते।
गजपतिमुखोद्गीर्णैराप्यैरथ त्रसरेणुभिः शिशिरमधुरामेणाः कच्छस्थलीमधिशेरते॥ 40 ॥
भानोः पादैर्दहनपरुषैर्दह्यमानान्तराणामुत्क्रामन्तः किल विटपिनां प्राणपिण्डा इवामी।
गाढोदन्याकुलितमनसो भिन्नचञ्चूपुटान्ताः कोकूयन्ते विहगशिशवः कोटराणां मुखेषु॥ 41 ॥
वहद्बहलमारुतप्रसरदग्निखण्डैरिव स्फुरद्द्युमणिमण्डलद्युतिवितानकैस्तापिता।
विसारि वपुरात्मनः सपदि वासरश्रीरियं चलन्मरुमरीचिकासिचयपल्लवेनाञ्चति॥ 42 ॥
विशन्तीनां स्नातुं जघनपरिवेषैर्मृगदृशां यदम्भः सम्प्राप्तं प्रमदवनवाप्यास्तटभुवम्।
गभीरे तन्नाभीकुहरपरिणाहाध्वनि रसत्कुहुंकारस्फारं रचयति निनादं नयति च॥ 43 ॥
धत्ते पद्मलतादलेप्सुरुपरि स्वं कर्णतालं द्विपः शष्पस्तम्बरसान्नियच्छति शिखी मध्ये शिखण्डं शिरः।
मिथ्या लेढि मृणालकोटिरभसाद्दंष्ट्राङ्कुरं शूकरो मध्याह्ने महिषश्च वाञ्छति निजच्छायामहाकर्दमम्॥ 44 ॥
सर्पत्सारिणि वारिशीतलतले विन्यस्तपुष्पोत्करे नीरन्ध्रे कदलीवने गुरुदलच्छायाहतार्कत्विषि।
कर्पूरागरुपङ्कपिच्छलघनोत्तुङ्गस्तनालिङ्गिभिः कान्ताकेलिरतैरहो सुकृतिभिर्मध्यन्दिनं नीयते॥ 45 ॥
उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपलज्वालाजालजटालजाङ्गलतटीनिष्कूजकोयष्टयः।
भौमोष्मप्लवमानसूर्यकिरणाः क्रूरप्रकाशा दृशामायुःकर्म समापयन्ति धिगमूर्मध्याह्नशून्या दिशः॥ 46 ॥
मध्याह्ने हरितो हुताशनमुचः कामोऽपि वामभ्रुवां पाटीरद्रवचर्चितां स्तनतटीमासाद्य निद्रायते।
एणाः केसरिणोऽपि केसरसटोपान्तश्रिताः शेरते छायामङ्गगतां न मुञ्चति तरुर्वोढा नवोढामिव॥ 47 ॥
मध्याह्ने चलतालवृन्तमनिलः सर्वात्मना सेवते वारि स्वेदमिषेण शीतलवधूवक्षोजमालम्बते।
निद्रा नेत्रमुपैति पक्ष्मयुगलच्छायाश्रिता दैहिकी पान्थानामथ पादयोर्निपतति छायापि मा यान्त्विति॥ 48 ॥
काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यपः पूर्णिकाः।
दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुटः॥ 49 ॥
स्वे स्वे कर्मणि सन्नियोज्य सुहृदो 1भूमीसुरान्मन्त्रिणश्चक्रं निर्भयमारचय्य भगवान् सम्प्राप्तरागोदयः।
स्वालोकक्षणकां2दिशीयमधुरोत्खातं विचिन्वन्निव ध्वान्तं क्वापि 3निलीनम4म्बरमणिर्व्योमाग्रमारोहति॥ 50 ॥

छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं मूलं याति सरो जलस्य जडता ग्लानेव मीनैः सह।
5आचामत्यहिमांशुदीधितिरपस्तप्तेव लोकैः समं निद्रा गर्भगृहं सह प्रविशति क्लान्तेव कान्ताजनैः॥ 51 ॥

6उष्णालुः शिशिरे निषीदति तरोमूलालवाले 7शिखी निर्भिद्योपरिकर्णिकारकुसुमान्याशेरते 8षट्पदाः।
तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनिवेशिपञ्जरशुकः क्लान्तो जलं याचते॥ 52 ॥

स्कन्धान्सि9न्धुरयूथगण्डकषणव्या10सक्तदानोदकान् सेवन्ते 11मधुपा महीरुहशिरः पुष्पाणि हित्वा भृशम्।
लीयन्ते वलभीकुलाय12कुहरे नि13स्पन्दमेते खगा जिह्वालीढवधूमुखो मृगगणश्छायासु विश्राम्यति॥ 53 ॥

उत्तप्तोऽयमुरङ्गमः शिखितलच्छायां समालम्बते वैरं साहजिकं विहाय च शिखी मूलं तरोर्गच्छति।
याचन्ते च जलं निकुञ्जभवने तृष्णातुराः सारिकास्तप्ते वारिणि पङ्कजानि मधुपास्त्यक्त्वा श्रयन्ते लताः॥ 54 ॥
अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने।
अन्तः पुष्पसुगन्धिरार्द्रकबरी सर्वाङ्गलग्नाम्बरं रामाणां रमणीयतां विदधति ग्रीष्मापराह्णागमे॥ 55 ॥
पान्थानां प्रमदा इव प्रतिदिनं दैन्यं ह्रदिन्यो ययुर्दृश्यन्ते स्म दिगम्बरा इव नवे पत्रोज्झिताः पादपाः।
निःश्वासा इव दुःसहा विरहिणां वाता ववुः सर्वतः पायं पायमिव प्रियाधररसं पाथः पपुः प्राणिनः॥ 56 ॥
अस्वाध्यायः पिकानां मदनमखसमारम्भणस्याधिमासो निद्राया जन्मलग्नं किमपि मधुलिहां कोऽपि दुर्भिक्षकालः।
विष्टिर्यात्रोत्सुकानां मलयजमरुतां पान्थकान्ताकृतान्तः प्रालेयोन्मूलमूलं समजनि समयः कश्चिदौत्पातिकोऽयम्॥ 57 ॥
पत्त्रच्छायासु हंसा मुकुलितनयना 1दीर्घिकापद्मिनीनां सौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिपारावतानि।
बिन्दूत्क्षेपान्पिपासुः परिसरति शिखी भ्रान्तिमद्वारियन्त्रं सर्वैरुस्रैः2 समग्रस्त्वमिव नृपगुणैर्दीप्यते 3सप्तसप्तिः॥ 58 ॥


  1. द्विजान्. ↩︎ ↩︎

  2. भयद्रुतम्. ↩︎ ↩︎

  3. गुप्तम्. ↩︎ ↩︎

  4. सूर्यः. ↩︎

  5. पिबति. ↩︎

  6. उष्णक्लान्तः. ↩︎

  7. मयूरः. ↩︎

  8. भ्रमराः. ↩︎

  9. गजसमूहस्य. ↩︎

  10. लिप्तमदोदकान्. ↩︎

  11. भृङ्गाः. ↩︎

  12. नीडरन्ध्रे. ↩︎

  13. निश्चलम्. ↩︎