०१ ग्रीष्मसमयस्वभावाख्यानम्

प्रतिगतमर्थिजनानां विच्छिन्नाशं समूहमवलोक्य।
स्फुटितमपयसस्तापादिव हृदयमलं तडागस्य॥ 3 ॥
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः॥ 4 ॥
1देशे देशे जडिमकुरङ्गास्तेजोभल्लैर्दिनकरभिल्ले।
2धावं धावं प्रहरति राज्ञां धारागेहं शरणमवापुः॥ 5 ॥

सञ्जातपत्रप्र3करान्वितानि समुद्वहन्ति स्फुटपाट4लत्वम्।
1विकस्वराण्यर्ककराभिमर्शाद्दिनानि पद्मानि च वृद्धिमीयुः2॥ 6 ॥

प्रचण्डभानुःस्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसञ्चयः।
दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालः समुपागतः प्रिये॥ 7 ॥
दुष्प्रेक्ष्यमुच्चैर्गगनं निदाघे कोपाकुलस्येव मुखं नृपस्य।
हरेः शयानस्य मृणालबुद्ध्या कर्षन्ति पुच्छं करिणः करेण॥ 8 ॥
प्रायश्चरित्वा3 वसुधामशेषां छायासु 5विश्रम्य ततस्तरूणाम्।
प्रौढिं गते सम्प्रति तिग्मभानौ6 शैत्यं शनैरन्तरपा7मयासीत्॥ 9 ॥

रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजो रुचः।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसम्पदः॥ 10 ॥
दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे॥ 11 ॥
निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतास्तनाः।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः॥ 12 ॥
कथमिव तव संमतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य।
इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः॥ 13 ॥
बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय।
भुवनपरिभवी न यत्तदानीं तमृतुगणः क्षणमुन्मनीचकार॥ 14 ॥
अपि शिशिरतरोपचारयोग्यं द्वितयमिदं युगपन्न सह्यमेव।
जरठितरविदीधितिश्च कालो दयितजनेन समं च विप्रयोगः॥ 15 ॥
तप्ता मही विरहिणामिव चित्तवृत्तिस्तृष्णाध्वगेषु कृपणेष्विव वृद्धिमेति।
सूर्यः करैर्दहति दुर्वचनैः खलो नु छाया सतीव न विमुञ्चति पादमूलम्॥ 16 ॥
छाया वियोगिवनितेव गता कृशत्वं तप्तं पयः पिशुनमानसवद्बभूव।
केनाधुना बत मनागवलोकनीयः क्रुद्धोत्तमर्णमुखमण्डलवत्पतङ्गः॥ 17 ॥
रिक्तेषु वारिकथया विपिनोदरेषु मध्याह्नजृम्भितमहातपतापतप्ताः।
स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन जिह्वां प्रसार्य तरवो जलमर्थयन्ते॥ 18 ॥
मुखकृतबिसखण्डश्चण्डमार्तण्डतापात्सितजलजतलस्थो राजते राजहंसः।
रजतघट इवायं विद्रुमाबद्धधाराविवरविगलदम्बुः कम्बुकण्ठि प्रतीहि॥ 19 ॥
रजनिचरमयामेष्वादिशन्ती रतेच्छां किमपि कठिनयन्ती नालिकेरीफलाम्भः।
अपि परिणमयित्री राजरम्भाफलानां दिनपरिणतिभोग्या वर्तते ग्रीष्मलक्ष्मीः॥ 20 ॥
निजां कायच्छायां श्रयति महिषः कर्दमधिया च्युतं गुञ्जापुञ्जं रुधिरमिति काकः कलयति।
समुत्सर्पन्सर्पः सुषिरविवरं तापविवशः सचीत्काराधूतं प्रविशति करं कुञ्जरपतेः॥ 21 ॥
तदात्वस्नातानां दरदलितमल्लीमुकुलिताः स्रजो बिभ्राणानां मलयजरसार्द्रार्द्रवपुषाम्।
निदाघाग्निप्लोषग्लपितमभिसायं मृगदृशां परिष्वङ्गोऽनङ्गं पुनरपि शनैरङ्कुरयति॥ 22 ॥
जलार्द्राः शष्पाणां विसकिसलयैः केलिवलयाः शिरीषैरुत्तंसा विचकिलमयी हाररचना।
शुचावेणाक्षीणां मलयजरसार्द्राश्च तनवो विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः॥ 23 ॥
हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो यदर्दति करम्बिता शिशिरवायुना वारुणी।
भवन्ति च हिमोपमाः स्तनभवो यदेणीदृशो रुचेरुपरि संस्थितो रतिपतेः प्रसादो गुरुः॥ 24 ॥
मूलं बालकवीरुधां सुरभयो जातीतरूणां त्वचः सारश्चन्दनशाखिनां किसलयान्यार्द्राण्यशोकस्य च।
शैरीषी कुसुमोन्नतिः परिणमन्मोचश्च सोऽयं गणो ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चेषवे॥ 25 ॥
अङ्गारैः खचितेव भूर्वियदपि ज्वालाकरालं करैस्तिग्मांशोः किरतीव तीव्रमभितो वायुः कुकूलानलम्।
अप्यम्भांसि नखंपचानि सरितामाशाज्वलन्तीव च ग्रीष्मेऽस्मिन्नववह्निदीपितमिवाशेषं जगद्वर्तते॥ 26 ॥
पाश्चात्यैर्मरुमारुतैस्त्रिजगतामुन्मूलयन्नार्द्रतां दावाग्निर्ज्वलितैरपारगहनान्यप्यानयन्भस्मताम्।
वात्याभिस्तृणपत्त्रधूलिनिकरान्धुन्वन्विहायःस्थले ग्रीष्मः शुष्यदपुच्छपल्वललुठन्मत्स्यः समभ्यागतः॥ 27 ॥
अत्यच्छं सितमंशुकं शुचि मधु स्वामोदमच्छं रजः कार्पूरं विधृतार्द्रचन्दनकुचद्वन्द्वाः कुरङ्गीदृशः।
धारावेश्म सपाटलं विचकिलस्रग्दाम चन्द्रत्विषो धातः सुष्टिरियं वृथैव तव न ग्रीष्मोऽभविष्यद्यदि॥ 28 ॥
माकन्दद्रुमञ्जरीषु वसतिस्तत्पल्लवैर्वर्तनं सा नो मञ्जुलता वचःसु मधुना सर्वं सह प्रस्थितम्।
एतत्तिष्ठतु दुःश्रवं मृदुहृदां निःस्वामिनस्तत्सखे प्रोन्मीलत्करुणो द्विजोऽयमिति हि त्वं ग्रीष्ममुष्णाहि नः॥ 29 ॥
कानि स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशाः किं वा शेषं वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः।
चण्डज्वालावलीढस्फुटिततनुलताग्रन्थिमुक्ताट्टहासो दावाग्निः शुष्कवृक्षे शिखरिणि गहनेऽधिष्ठितः पश्यतीव॥ 30 ॥
बाले मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां किं त्व पक्ष्मान्तवान्तैर्मलिनयसि मुधा वक्त्रमश्रुप्रवाहैः।
एषा प्रोद्वृत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलानां दावाग्नेः सम्प्रवृद्धा मलिनयति दिशां मण्डलं धूमलेखा॥ 31 ॥
स्फीतं शीतं गतं क्व क्व शिशिरकिरणः क्वास्ति हेमन्तमासः क्वैते पानीयपूर्णा मलिनजलधराः क्वाद्य विद्युत्प्रमोदः।
इत्युच्चैर्जल्पमानैरिव मुखरमुखैर्भिल्लिदूतैरुपेतो वातौघश्चागतोऽसौ प्रकटितविजयस्तम्भचिह्नैर्निदाघः॥ 32 ॥


  1. हिमान्येव कुरङ्गा मृगाः. ↩︎ ↩︎

  2. धावित्वा धावित्वा. ↩︎ ↩︎

  3. समूहाः. ↩︎ ↩︎

  4. वृक्षविशेषः; [पक्षे] पाटलवर्णानि. ↩︎

  5. वसन्ते इत्यर्थः. ↩︎

  6. ग्रीष्मे. ↩︎

  7. जलानाम्. ↩︎