मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभिश्रियम्।
अभृत वारितवारिजविप्लवं स्फुटितताम्रत1ताम्रवनं जगत्॥ 1 ॥
रणत्कङ्कणानां झणन्नूपुराणां चलत्कुण्डलानां क्वणत्किङ्किणीनाम्।
वधूनां मुखाम्भोरुहं द्रष्टुकामो रथं मन्थरं चक्रबन्धुश्चकार॥ 2 ॥
विकसितसहकारभारहारिपरिमलपुञ्जितगुञ्जितद्विरेफः।
नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानसं वसन्तः॥ 3 ॥
-
विस्तीर्ण. ↩︎