०५ वसन्तपथिकाः

वक्रेण शिरसि पतता नित्यं रुधिरारुणेन दुर्वारः।
मत्तद्विप इव पथिकः किंशुककुसुमाङ्कुशेन भृतः॥ 138 ॥
समवलोक्य विलासवनस्थलीं न पथिकैः पथि कैः पतितं भुवि।
मलयजद्रुमसौरभमेदुरोदरसमीरसमीरितवल्लरीम्॥ 139 ॥
वसन्तप्रारम्भे चिरविरहखिन्ना सहचरी यदि प्राणान्मुञ्चेत्तदिह वधभागी भवति कः।
वयो वा स्नेहो वा कुसुमविशिखो वेति विमृशंस्तु1हीति प्रव्यक्तं पिकनिकरझाङ्कारमशृणोत्॥ 140 ॥

रे पान्थाः स्वगृहाणि गच्छत सुखं सेवाक्षणो मुच्यतां मानं मानिनि मुञ्च वल्लभजने कोपानुबन्धेन किम्।
आयातः कुसुमाकरः क्षपयति प्राणान्वियोगातुरेष्वित्येवं परपुष्टनादपटहो वक्तीव कामाज्ञया॥ 141 ॥
सा तन्वीति घनस्तनीति विकसन्नीलाब्जनेत्रेति च स्वैरं सञ्चरतीति वक्ति मधुरां वाचं विचित्रामपि।
इत्थं विद्रुमपाटलाधरपुटां सीमन्तिनीं ध्यायतो रोमाञ्चो रुदितं स्मितं प्रलपितं पान्थस्य सञ्जायते॥ 142 ॥
अध्वन्यस्य वधूर्वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणानुज्झति कस्य तत्खलु महत्सञ्जायते पातकम्।
यावन्नो कृतमध्वगेन हृदये तावत्तरोर्मूर्धनि प्रोद्धुष्टं परपुष्टया तव तवेत्युच्चैर्वचोऽनेकशः॥ 143 ॥
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः॥ 144 ॥
अध्वन्यैर्मकरन्दशीकरसुरामत्तक्वणत्कोकिले मार्गे मार्गनिरोधिनी परिहृता शङ्केऽशुभाशङ्कया।
पान्थस्त्रीवधपातकादुपनतं चण्डालचिह्नं मधोरेषा 2खिङ्खिणिकेव षट्पदमयी भाङ्कारिणी संहतिः॥ 145 ॥

सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रुतिः किञ्चिन्नैतदिहास्ति तत्कथमसौ पान्थस्तपस्वी मृतः।
आ ज्ञातं मधुलम्पटैर्मधुकरैरारब्धकोलाहले नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता॥ 146 ॥
एतस्मिन्दक्षिणाशानिलचलितलतालीनमत्तालिमालापक्षक्षोभावधूतच्युतबहलरजोह्लादिहृद्ये वसन्ते।
प्रेमस्वेदार्द्रबाहुश्लथवलयलसत्प्रौढसीमन्तिनीनां मन्दः कण्ठग्रहोऽपि ग्लपयति हृदयं किं पुनर्विप्रयोगः॥ 147 ॥


  1. तुहीति हिन्दुस्थानीभाषया त्वमेवेत्यर्थः. ↩︎

  2. चण्डावल्लकी. ↩︎