०४ वसन्तवायवः

यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितशैलवीरुधः।
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम्॥ 120 ॥
विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुपूरे॥ 121 ॥
स्फुटमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम्।
वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत्॥ 122 ॥
विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे।
परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेव कामिनीनाम्॥ 123 ॥
हिमलवसदृशः श्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः।
कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते॥ 124 ॥
समदनमवतंसितेऽधिकर्णं प्रणयवता कुसुमे सुमध्यमायाः।
व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः॥ 125 ॥
अतिमन्दचन्दनमहीधरवातं स्तबकाभिरामलतिकातरुजातम्।
अपि तापसानुपवनं मदनार्तान्मदमञ्जुगुञ्जदलिपुञ्जमकार्षीत्॥ 126 ॥
उपवनतरुनृत्याध्यापने लब्धवर्णो विरचितजलकेलिः पद्मिनीकामिनीभिः।
प्रियसुहृदसमेषोराययौ योगियोगस्थितिविदलनदक्षो दक्षिणो गन्धवाहः॥ 127 ॥
आलिङ्गन्ते 1मलयजतरूनास्वजन्ते वनान्तानापृच्छन्ते चिरपरिचितान्मालयान्निर्झरौघान्।
अद्य स्थित्वा द्रविडमहिलाभ्यन्तरे श्वः प्रभाते प्रस्थातारो मलयमरुतः कुर्वते सन्निधानम्॥ 128 ॥

लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन्।
मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन् रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि॥ 129 ॥
मलयशिखरादाकैलासं मनोभवशासनाद्भुवनवलयं जेतुं वाञ्छन् वसन्तसमीरणः।
विहितवसतिं कैलासाग्रे भुजङ्गधरं हरं मनसि विमृशन् भीतः शङ्के प्रयाति शनैः शनैः॥ 130 ॥
पथि पथि लतालोलाक्षीभिः स्रवन्मधुसीकरं कुसुमनिकरं वर्षन्तीभिः सहर्षमिवार्चितः।
मधुकरवधूगीतासक्तं कुरङ्गकमास्थितः प्रसरति वने मन्दं मन्दं वसन्तसमीरणः॥ 131 ॥
1उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे नटन्तः कुहूकण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः।
अमी चैत्रे मैत्त्रावरुणितरुणीकेलिकङ्केल्लिमल्लीचलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः॥ 132 ॥

हेमाम्भोरुहपत्तने परिमलस्तेयी वसन्तानिलस्तत्रत्यैरिव यामिकैर्मधुकरैरारब्धकोलाहलः।
निर्यातस्त्वरया व्रजन्निपतितः श्रीखण्डपङ्कद्रवैर्लिप्ते केरलकामिनीकुचतटे खञ्जः शनैर्गच्छति॥ 133 ॥
प्राप्तः प्राज्यमिव श्रमं जलजिनीसौरभ्यभारं वहन्नुद्दामस्तबकानमन्नवलतालक्ष्मीमिवालोकयन्।
स्वीकुर्वन्मदमन्थरानिव गतेर्वामभ्रुवां विभ्रमान् मन्दं मन्दमुपाजगाम पवनः पाटीरवाटीतटात्॥ 134 ॥
पानीयं नारिकेलीफलकुहरकुहूत् कारि कल्लोलयन्तः कावेरीतीरतालद्रुमभरितसुराभाण्डभाङ्कारचण्डाः।
एते तन्वन्ति वेलावनललितलताताण्डवं द्राविडस्त्रीकर्पूरापाण्डुगण्डस्थललुठितरया वायवो दाक्षिणात्याः॥ 135 ॥
कावेरीतीरभूमीरुहभुजगवधूभुक्तमुक्तावशिष्टः कर्णाटीचीनपीनस्तनवसनदशान् दोलनस्पन्दमन्दः।
लोलल्लाटीललाटालकललितलतालास्यलीलाविलोलः कष्टं भो दाक्षिणात्यः प्रसरति पवनः पान्थकान्ताकृतान्तः॥ 136 ॥
ये दोलाकेलिकाराः किमपि मृगदृशां मानतन्तुच्छिदो ये सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रयेऽपि।
ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः॥ 137 ॥


  1. मलयसम्बन्धिनः. ↩︎ ↩︎