निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि।
नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी॥ 103 ॥
असङ्ख्यपुष्पोऽपि मनोभवस्य पञ्चैव बाणार्थमयं ददाति।
एवं कदर्यत्वमिवावधार्य सर्वस्वमग्राहि मधोर्वधूभिः॥ 104 ॥
अताडयत्पल्लवपाणिनैकं पुष्पोच्चये राजवधूरशोकम्।
तच्छेदहेतोरलिपङ्क्तिभङ्ग्या विकृन्तिता बाललता स्मरेण॥ 105 ॥
अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः॥ 106 ॥
उच्चित्य प्रथममवस्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा।
आरोढुं पदमदधादशोकयष्टावामूलं पुनरपि तेन पुष्पिता सा॥ 107 ॥
मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि।
तदपि न किल बालपल्लवाग्रग्रहपरया विविदे विदग्धसख्या॥ 108 ॥
व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः।
यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे॥ 109 ॥
विलसितमनुकुर्वती पुरुस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः।
रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग॥ 110 ॥
सललितमवलम्ब्य पाणिनांसे सहचरमुच्छ्रितगुच्छवाञ्छयान्या।
सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्याम्॥ 111 ॥
मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य।
उपरि निरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या॥ 112 ॥
उपरिजतरुजानि याचमानां कुशलतया परिरम्भलोलुपोऽन्यः।
प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम्॥ 113 ॥
इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरः पुरोऽन्या।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः॥ 114 ॥
विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकेऽन्या।
अभिपतितुमना लघुत्वभीतेरभवदमुञ्चति वल्लभेऽतिगुर्वी॥ 115 ॥
पूर्वं द्विरेफपरिभूतिभयाद्भवत्या यत्केशपुष्पभरणं हरिणाक्षि मुक्तम्।
व्यर्थं तदद्य पुनरप्यलकेषु भृङ्गाः पुञ्जीभवन्निजकुलभ्रमतः पतन्ति॥ 116 ॥
सन्तु द्रुमाः किसलयोत्तरपुष्पभाराः प्राप्ते वसन्तसमये कथमित्थमेव।
न्यासैर्नवद्युतिमतोः पदयोस्तवेयं भूः पुष्पिता सुतनु पल्लवितेव भाति॥ 117 ॥
अनुभवत युवत्यो भाग्यवत्यो नितान्तं कुसुमवलयवेलासङ्गखेलासुखानि।
मम तु मधुकराणां वाटपाटच्चराणां सपदि पतति धाटी पुष्पवाटीनिवेशे॥ 118 ॥
पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोर्नीलेन्दीवरशङ्कया नयनयोर्बनधूकबुद्ध्याधरे।
लीयन्ते कबरीभरे निजकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि॥ 119 ॥