०१ वसन्तसमयस्वभावाख्यानम्

कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः।
गदितैर्व्यक्ततामेति कुलीनश्चेष्टितैरिव॥ 4 ॥
परिचुम्बति सम्श्लिष्य भ्रमरश्चूतमञ्जरीम्।
नवसमङ्गमसन्दृष्टः कामी प्रणयिनीमिव॥ 5 ॥
आम्रे पल्लविते स्थित्वा कोकिला मधुरस्वरम्।
चुकूज कामिनां चित्तमाकर्षन्तीव दूतिका॥ 6 ॥
सुभगे कोटिसङ्ख्यत्वमुपेत्य मदनाशुगैः।
वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्॥ 7 ॥
1पतङ्गपाकसमये पतङ्ग2पतिविक्रमाः।
3पतङ्गस्योदये चेलुः 4पतङ्गा इव वानराः॥ 8 ॥

सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते।
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा॥ 9 ॥
मलयानिलमिलनोत्कटमदकलकलकण्ठकलकलललामः।
मधुरमधुविधुरमधुपो मधुरयमधुना धिनोति धराम्॥ 10 ॥
किंशुककलिकान्तर्गतमिन्दुकलास्पर्धिकेसरं भाति।
रक्तनिचोलकपिहितं धनुरिव जतुमुद्रितं वितनोः॥ 11 ॥
आयाता मधुरजनी मधुरजनीगीतिहृद्येयम्।
अङ्कुरितः स्मरविटपीस्मर विट पीनस्तनीमबलाम्॥ 12 ॥
अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः।
रम्योऽयमेति सम्प्रति लोकोत्कण्ठाकरः कालः॥ 13 ॥
सपदि सखीभिर्निभृतं विरहवतीस्रातुमत्र भज्यन्ते।
सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे॥ 14 ॥
असौ मरुच्चुम्बितचारुकेसरः5 प्रसन्नतारा6धिपमण्डलाग्रणीः।
वियुक्तरा7मातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः॥ 15 ॥

प्रसूनशृङ्गैर्मकरन्दतोयं सलीलमादाय वसन्तकामी।
वनस्थलीवामदृशां मुखानि सिञ्चत्यसौ मन्दमरुत्करेण॥ 16 ॥
व्यतीतकल्पे शिशिरैकबाल्ये सङ्कल्पपुष्पोद्गमबन्धुराङ्गी।
इयं लवङ्गी युवभृङ्गसङ्गादुच्छूनगुच्छस्तनिकेव भाति॥ 17 ॥
दत्ते जनोऽसौ खलु विद्यमानमविद्यमानं तु न कोऽपि तावत्।
वियोगिनां पुष्पनमन्नशोकः शोकप्रदोऽभूदतिचित्रमेतत्॥ 18 ॥
जगौ विवाहावसरे वनस्थलीवसन्तयोः कामहुताशसाक्षिणी।
पिकद्विजः प्रीतमना मनोरमं मुहुर्मुहुर्मङ्गलमन्रमादरात्॥ 19 ॥
रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम्॥ 20 ॥
आस्वादितं स्वादुमरन्दबिन्दुस्वच्छन्दमिन्दीवरसुन्दरीभिः।
माकन्दपुष्पं प्रमदाजनस्य प्रमोदमामोदभरैरकार्षीत्॥ 21 ॥
कुबेरगुप्तं दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य।
दिग्दक्षिण गन्धवहं मुखेन व्यलीकनिश्वासमिवोत्ससर्ज॥ 22 ॥
असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि।
पादेन नापैक्षत सुन्दरीणां सम्पर्कमासिञ्जितनूपुरेण॥ 23 ॥
सद्यः प्रवालोद्गमचारुपत्त्रे नीते समाप्तिं नवचूतबाणे।
निवेशयामास मधुर्द्विरेफान्नामाक्षराणीव मनोभवस्य॥ 24 ॥
वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः।
प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः॥ 25 ॥
बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥ 26 ॥
लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य।
रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलञ्चकार॥ 27 ॥
मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विघ्नितदृष्टिपाताः।
मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्त्रमोक्षाः॥ 28 ॥
चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज।
मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य॥ 29 ॥
हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम्।
स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्त्रविशेषकेषु॥ 30 ॥
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः।
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः॥ 31 ॥
ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः।
अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा॥ 32 ॥
गीतान्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्वासितपत्त्रलेखम्।
पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्बे॥ 33 ॥
पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः।
लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि॥ 34 ॥
न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम्।
न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः॥ 35 ॥
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम्।
इति यथाक्रममाविरभून्मधुर्द्रुमवतीमवतीर्य वनस्थलीम्॥ 36 ॥
उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया॥ 37 ॥
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम्।
न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान् हिमम्॥ 38 ॥
अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा।
अमदयत्सहकारलता मनःसकलिका कलिकामजितामपि॥ 39 ॥
नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः।
अभिययुः सरसो मधुसम्भृतां कमलिनीमलिनीरपतत्त्रिणः॥ 40 ॥
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम्।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः॥ 41 ॥
विरचिता मधुनोपवनश्रियामभिनवा इव पत्त्रविशेषकाः।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः॥ 42 ॥
सुवदनावदनासवसम्भृतस्तदनुवादिगुणः कुसुमोद्गमः।
मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः॥ 43 ॥
प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु॥ 44 ॥
श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः।
उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः॥ 45 ॥
ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम्।
पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम्॥ 46 ॥
शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहङ्गमाः॥ 47 ॥
उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः।
सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः॥ 48 ॥
अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः।
कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम्॥ 49 ॥
हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत्।
युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम्॥ 50 ॥
अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव॥ 51 ॥
अमदयन्मधुगन्धसनाथया किसलयाधरसन्ततया मनः।
कुसुमसम्भृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी॥ 52 ॥
अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः।
परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः॥ 53 ॥
उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी।
सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः॥ 54 ॥
ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः।
कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः॥ 55 ॥
अनुभवन्नवदोलमृतदूत्सवं पटुरपि प्रियकण्ठजिघृक्षया।
अनयदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः॥ 56 ॥
त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः॥ 57 ॥
नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः॥ 58 ॥
विलुलितालकसंहतिरामृशन् मृगदृशां श्रमवारि ललाटजम्।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ॥ 59 ॥
स्फुटमिवोज्ज्वलकाञ्चनकान्तिभिर्युतमशोकमशोभत चम्पकैः।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना॥ 60 ॥
स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः।
निपतिताः परितः पथिकव्रजानुपरि ते परिते पुरतो भृशम्॥ 61 ॥
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेव वधूरनुनायिका।
बकुलपुष्परसासवपेशलध्वनिरगान्निरगान्मधुपावलिः॥ 62 ॥
प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरयाचितमङ्गनाः॥ 63 ॥
मधुकरैरपवादकरैरिप स्मृतिभुवः पथिका हरिणा इव।
कलतया वचसः परिवादिनीस्वरजिता रजिता वशमाययुः॥ 64 ॥
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीषया।
अविनमन्न रराज वृथोच्चकैरनृतया नृतया वनपादपः॥ 65 ॥
वदनसौरभलोभपरिभ्रमद्भ्रमरसम्भृतसम्भृतशोभया।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया॥ 66 ॥
कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुमुहुर्गतभर्तृकाः॥ 67 ॥
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे॥ 68 ॥
अरुणिताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम्॥ 69 ॥
कमलिनी मलिनी दयितं विना न सहते सह तेन निषेवितुम्।
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहिर्निशम्॥ 70 ॥
सुहृदस्तरुणीनखक्षतानां प्रतिपक्षाः पथिकाङ्गनाजनानाम्।
दहनद्युतिदस्यवः समन्ताद्विपिने किंशुककुड्मला विरेजुः॥ 71 ॥
किंशुकक्षितिरुहां विलसन्तः कुड्मलाः कुटिलतां कलयन्तः।
पान्थवारणविदारणताम्राः कामकेसरिनखा इव रेजुः॥ 72 ॥
प्रस्फुरत्प्रचुरबालपल्लवा वीरुधश्च तरलाश्चकाशिरे।
क्रीडिता इव कुसुम्भवारिभिः काममित्त्रसमये समागते॥ 73 ॥
कूजितानि कलयन्वनप्रियो न प्रियो विरहिणामजायत।
मन्मथाग्निरपि भस्मना दरं सादरं मुनिमनोऽम्बुजं व्यधात्॥ 74 ॥
बकुलकुलमिलन्मिलन्दमालामदकलकोकिलकूजितोदयेन।
अहह नियमिनोऽपि तत्त्वचिन्ताच्युतमतयो मतयोषितो बभूवुः॥ 75 ॥
कुसुमनगवनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम्।
क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः॥ 76 ॥
विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम्।
ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपल्लवेषु॥ 77 ॥
मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन।
अलिकुलमलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः॥ 78 ॥
श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती।
मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे॥ 79 ॥
उत्स्रष्टुमम्बुजदृशामिव मानरत्नमादाय षट्पदतिलान्मधुवारिपूरान्।
पुंस्कोकिलस्य कलकूजितकैतवेन सङ्कल्पवाक्यमयमातनुते रसालः॥ 80 ॥
उत्फुल्लपङ्कजनिषक्तलसद्द्विरेफः किञ्चिद्विनिद्रकुमुदोत्करसम्भृतश्रीः।
आमूलनद्धविविधाद्भुतमाल्यमालश्चित्रं न कस्य तनुते ललितस्तमालः॥ 81 ॥
धुन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि।
निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृदसगर्वसमीरणानि॥ 82 ॥
कुपितापि 1मनःपतिना सह का सहकारविलोकनजातरसा।
तरसा रमते स्म न हा रमणी रमणीयतनुः सुतनुः सुरभौ॥ 83 ॥

स्थलकमलतरूणां कामिनीलोचनेषु क्षिपति मुकुलमुष्ट्या धूलिजात्यं विशालम्।
तदनु हरति हन्त स्वान्तसर्वस्वमासामयमनयविदग्धो धूर्तवन्मीनकेतुः॥ 84 ॥
पथि पथि शुकचञ्चूचारुराभाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्च।
नरि नरि किरति द्राक्सायकान्पुष्पधन्वा पुरि पुरि विनिवृत्ता मानिनीमानचर्चा॥ 85 ॥
इह मधुपवधूनां पीतमल्लीमधूनां विलसति कमनीयः काकलीसम्प्रदायः।
इह नटति सलीलं मञ्जरी वञ्जुलस्य प्रतिपदमुपदिष्टा दक्षिणेनानिलेन॥ 86 ॥
विकसति सहकारे स्फारसौरभ्यसारे वहति धुतपटीरे मन्दमन्दं समीरे।
कलयति कलवाचं कोकिलोकोऽपि रुष्टः क्षणमपि न मृगाक्ष्या वल्लभो दुर्लभोऽभूत्॥ 87 ॥
इह हि नववसन्ते मञ्जरीरेणुपुञ्जच्छुरणधवलदेहा बद्धहेलं सरन्ति।
तरलमलिसमूहा हारिहुंकारिकण्ठा बहलपरिमलालीसुन्दरं सिन्दुवारम्॥ 88 ॥
स्थाने स्थाने मलयमरुतः पूरयन्त्यङ्कपालीं पुष्पालीषु स्मरगजरजःस्नानयोग्याः परागाः।
जातं चूते मधु मधुकरप्रेयसीजानुदघ्नं निर्विघ्नत्वं सपदि भवते रागराज्याभिषेकः॥ 89 ॥
प्रसूनकलिकाकुलैः किसलयैः करस्पर्धिभिः स्फुरन्मधुमदभ्रमद्भ्रमरकोकिलाकूजितैः।
इति क्रमसमुद्गतैरुपवनावलीमण्डलीममण्डयदिव प्रियामृतुवसुन्धरावल्लभः॥ 90 ॥
विलासिभिरिवोन्मदै रचितरम्यगुञ्जारवैः प्रसूनसुरभीकृतैर्विगलितत्रपास्तापसाः।
अशोकशिखरस्थितैः सुनयनान्वितैः षट्पदैर्निरन्तरनिषेवितामितमधौ मधौ रेमिरे॥ 91 ॥
मन्दोऽयं मलयानिलः किसलयं चूतद्रुमाणां नवं माद्यत्कोकिलकूजितं विचकिलामोदः पुराणं मधु।
बाणानित्युपदीकरोति सुरभिः पञ्चैव पञ्चेषवे यूनामिन्द्रियपञ्चकस्य युगपत् सम्मोहसम्पादिनः॥ 92 ॥
उद्यद्विद्रु1मकान्तिभिः 2किसलयैस्ताम्रां त्विषं बिभ्रतो भृङ्गालीविरुतैः कलैरविशदव्याहारलीलाभृतः।
भ्राम्यन्तो मलयानिलाहतिचलैः शाखासहस्रैर्मुहुर्भान्ति प्राप्य मधुप्रसङ्गमधुना मत्ता इवामी द्रुमाः॥ 93 ॥

चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः सन्नद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं शङ्के सम्हरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम्॥ 94 ॥
पुष्पाणि प्रथमं ततः प्रकटिताः स्वान्तोत्सवाः पल्लवाः पश्चादुन्मदकोकिलालिललनाकोलाहलः कोमलः।
इत्थं प्रादुरभूदुपेत्य परितः प्राज्यप्रमोदप्रदः प्रोद्दामद्रुमराजिराजितवनक्षोणीमृतुक्ष्मापतिः॥ 95 ॥
स्तोत्रं चैत्रगुणोदयस्य विरहिप्राणप्रयाणानकष्टङ्कारः स्मरकार्मुकस्य सुदृशां शृङ्गारशिक्षागुरुः।
दोलाकेलिकलासु मङ्गलपदं बन्दी वनान्तश्रियां नादोऽयं कलकण्ठकण्ठकुहरप्रेङ्खोलितः श्रूयते॥ 96 ॥
3माकन्दच्युतपुष्परेणु4पटलीक्लृप्तालवालोदरे मन्दस्यन्दिमरन्दपूरभरिते वातोत्थपुष्पप्लवैः।
खेलन्तो ललितं मधोर्गुणगणान्गायन्ति 5पुष्पन्धयाः कान्तानामधरे 6धयन्ति मधुरं सक्तं 7मधूलीरसम्॥ 97 ॥

आरूढो मलयानिलद्विपवरं युक्तो विलासानुगैः पीतः पुष्पविलोचनैर्नवलतापौराङ्गनानां गणैः।
अभ्राम्यद्वनपत्तने मधुमहीपालस्ततः कोकिलालीलालापमिलद्भ्रमद्भ्रमरिकाभाङ्कारभेरीरवैः॥ 98 ॥
वारस्त्रीव वनस्थली नवनवां शोभां बभारान्वहं पान्थान् पीडयति स्म तस्कर इव क्रूरैः शरैर्मन्मथः।
शृङ्गारः सगुणः क्षमापतिरिव प्राप्तः प्रतिष्ठां परां रात्रिः स्वीकुरुते स्म मुग्धललनालज्जेव कार्श्यं क्रमात्॥ 99 ॥
साम्यं सम्प्रति सेवते 8विचकिलं षाण्मासिकैर्मौक्तिकैर्बाह्लीकीदशनव्रणारुणतरैः पत्त्रैरशोकश्चितः।
भृङ्गालङ्घितकोटि किंशुकमिदं किञ्चिद्विवृन्तायते माञ्जिष्ठस्तबकैश्च पाटलितरोरन्यैव काचिल्लिपिः॥ 100 ॥1

गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः।
किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः॥ 101 ॥


  1. शालिविशेषस्य परिपाकसमये. ↩︎ ↩︎ ↩︎ ↩︎

  2. गरुडपराक्रमः. ↩︎ ↩︎

  3. सूर्यस्य. ↩︎ ↩︎

  4. शलभाः. ↩︎ ↩︎

  5. पुंनागः; [पक्षे] सटाः. ↩︎ ↩︎

  6. चन्द्रबिम्बः; [पक्षे] सुग्रीवस्य सेना. ↩︎ ↩︎

  7. स्त्री; [पक्षे] दशरथपुत्रः. ↩︎ ↩︎

  8. मदनाख्यतरुकुसुमम्. ↩︎