दिदृक्षमाणः क्षणमायताक्ष्या मुखाम्बुजं मञ्जुलमध्वनीनः।
मुहूर्तमात्रं सुमुहूर्तकालं सवर्षकालं कलयाञ्चकार॥ 1 ॥
निशम्य केलीभवनोपकण्ठे मञ्जीरमञ्जुध्वनिमध्वनीनः।
यथा तथा बद्धकथावशेषं समापयामास समं सुहृद्भिः॥ 2 ॥
मुखं प्रियायाः समुदीक्षमाणः कान्तो दिनस्यान्तमपेक्षमाणः।
मुहुर्मुहुर्व्योमनि तिग्मभानौ निवेशयामास विलोचने स्वे॥ 3 ॥