६७ सखायं प्रति नायकोक्तिः

शेते शीतकरोऽम्बुजे कुवलयद्वन्द्वाद्विनिर्गच्छति स्वच्छा मौक्तिकसंहतिर्धवलिमा हैमीं लतामञ्चति।
स्पर्शात्पङ्कजकोशयोरभिनवा यान्ति स्रजः क्लान्ततामेषोत्पातपरम्परा मम सखे यात्रास्पृहां कृन्तति॥ 1 ॥