किमिति सखे परदेशे गमयसि दिवसान्धनाशया लुब्धः।
वर्षति मौक्तिकनिकरं तव भवनद्वारि काञ्चनी वल्ली॥ 1 ॥
या बिम्बौष्ठरुचिः क्व विद्रुममणिः स्वप्नेऽपि तां लब्धवान्हासश्रीसदृशैस्तपोभिरपि किं मुक्ताफलैर्भूयते।
तत्कान्तिः शतशोऽपि वह्निपतनैर्हेम्नः कुतः सेत्स्यति त्यक्त्वा रत्नमयीं प्रयासि दयितां कस्मै धनायाध्वग॥ 2 ॥
उद्यद्बर्हिषि दुर्दरारवपुषि प्रक्षीणपान्थायुषी श्च्योतद्विप्रुषि चन्द्ररुड्मुषि सखे हंसद्विषि प्रावृषि।
मा मुञ्चोच्चकुचान्तसन्ततगलद्बाष्पाकुलां बालिकां काले कालकरालनीलजलदव्यालुप्तभास्वत्त्विषि॥ 3 ॥
मा गच्छ प्रमदाप्रिय प्रियशतैरभ्यर्थितस्त्वं मया बाला प्राङ्गणमागतेन भवता प्राप्नोत्यवस्थां पराम्।
किं चास्याः कुचभारनिःसहतरैरङ्गैरनङ्गाकुलैस्त्र्युट्यत्कञ्चुकजालकैरनुदिनं निःसूत्रमस्मद्गृहम्॥ 4 ॥