गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान्॥ 1 ॥
1न चिरं मम तापाय तव यात्रा भविष्यति।
यदि यास्यसि यातव्यमलमाशङ्कयापि ते॥ 2 ॥
सहिष्ये विरहं नाथ देह्यदृश्याञ्जनं मम।
यदक्तनेत्रां कन्दर्पः प्रहर्तुं मां न शक्ष्यति॥ 3 ॥
प्राणेश विज्ञप्तिरियं मदीया तत्रैव नेया दिवसाः कियन्तः।
सम्प्रत्ययोग्यस्थितिरेष देशः करा हिमांशोरपि तापयन्ति॥ 4 ॥
एतस्मिन् सहसा वसन्तसमये प्राणेश देशान्तरं गन्तुं त्वं यतसे तथापि न भयं तापात्प्रपद्येऽधुना।
यस्मात्कैरवसारसौरभमुषा साकं सरोवायुना चान्द्री दिक्षु विजृम्भते रजनिषु स्वच्छा मयूखच्छटा॥ 5 ॥
लोलैर्लोचनवारिभिश्च शपथैः पादप्रणामैः परैरन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम्।
पुण्याहं व्रज मङ्गलं सुदिवसः प्रातः प्रयातस्य यत्त्वत्स्नेहोचितमीहितं प्रिय मया त्वं निर्गतः श्रोष्यसि॥ 6 ॥
भास्वांश्चूततरुर्गुरुर्मनसिजः कोऽप्येष भृङ्गस्तमो मन्दो गन्धवहः सितो मलयजो दोषाकरो माधवः।
अङ्गारो नवपल्लवः परभृतो विज्ञो गुरोराज्ञया निर्यातोऽसि विचारिताः कथममी क्रूरा ग्रहा न त्वया॥ 7 ॥
मा याहीत्यपमङ्गलं बत सखे स्नेहेन हीनं वचस्तिष्ठेति प्रभुता यथारुचि कुरुष्वैषाप्युदासीनता।
नो जीवामि विना त्वयेति वचनं सम्भाव्यते वा न वा तन्मां शिक्षय नाथ यत्समुचितं वक्तुं त्वयि प्रस्थिते॥ 8 ॥
-
स्वमरणसंसूचनेन गमननिषेधो गर्भीकृतः. ↩︎