६४ सखीं प्रति नायिकावाक्यम्

वयो नव्यं स्वान्तं विषयतरलं हन्त सततं प्रियो दूरे देशे जनकनगरं दुर्लभतरम्।
जनश्चायं दुष्टो भृशमिदमनर्थाय सततं कथञ्कारं पारं कथय सखि यामोऽस्य वयसः॥ 1 ॥
आयाता जलदावली सरभसं विद्युत्समालिङ्गिता शैलानां परितः सशब्दम1हिभुक्श्रेणी नरीनृत्यति।
एवं सत्यपि हन्त सम्प्रति पतिर्देशान्तरं प्रस्थितस्तद्दुःखं विनिवेद्यतां सखि कथं कस्याधुनाग्रे मया॥ 2 ॥

कान्तो यास्यति दूरदेशमिति मे चिन्ता परं जायते लोकानन्दकरो हि चन्द्रवदने वैरायते चन्द्रमाः।
किं चायं वितनोति कोकिलकलालापो विलापोदयं प्राणानेव हरन्ति हन्त नितरामाराममन्दानिलाः॥ 3 ॥


  1. मयूरपङ्क्तिः. ↩︎