मुग्धा कान्तस्य 1यात्रोक्तिश्रवणादेव मूर्च्छिता।
2बुद्ध्वा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान्॥ 1 ॥
यामीति प्रियपृष्टायाः कान्तायाः कण्ठवर्त्मनि।
वचोजीवितयोरासीद्बहिर्निस्सरणे रणः॥ 2 ॥
बाष्पाकुलं प्रलपतोर्गृहिणि निवर्तस्व कान्त गच्छेति।
यातं दम्पत्योर्दिनमनुगमनावधि सरस्तीरे॥ 3 ॥
यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्ग्याः।
3गलितानि पुरोवलयान्यपराणि तथैव दलितानि॥ 4 ॥4
मनसि निविशथे स कोऽपि तापः प्रणयिनि बाहुलतान्तरस्थितेऽपि।
सरसिजमकरन्दगन्धबन्धुर्वहति यदेष शनैः शनैः समीरः॥ 5 ॥
कान्ते कथञ्चिद्गदितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी।
ततः समालोक्य कदागतोऽसीत्याख्याय कान्ता मुदमाससाद॥ 6 ॥
लज्जां विहाय रुदितं विधृतः पटान्ते मा गास्त्वमित्युदितमङ्गुलयो मुखेऽस्ताः।
स्थित्वा पुरः पतितमेव निवर्तनाय प्राणेश्वरे व्रजति किं न कृतं कृशाङ्ग्या॥ 7 ॥
गन्तुर्विवस्वदुदये हृदयेश्वरस्य प्रत्यूषपक्षिनिनदश्रमजातकम्पा।
निद्रां जलैरशिशिरैर्नयनाब्जजातैः कान्ता तदंसशिखरे पतितैर्जहार॥ 8 ॥
प्राणेश्वरे किमपि जल्पति निर्गमाय क्षामोदरी वदनमानमयाञ्चकार।
आली पुनर्निभृतमेत्य लतानिकुञ्जमुन्मत्तकोकिलकलध्वनिमाततान॥ 9 ॥
गन्तुं प्रिये वदति निःश्वसितं न दीर्घमासीन्न वा नयनयोर्जलमाविरासीत्।
आयुर्लिपिं पठितुमेणदृशः परन्तु भालस्थलीं किमु करः समुपाजगाम॥ 10 ॥
प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा किमुत सकले यातेऽप्यह्नि प्रिय त्वमिहैष्यसि।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पझलज्झलैः॥ 11 ॥
पितुरधिपुरं त्यक्ताः सख्यः समं निजबान्धवैर्न च परिचितिर्जाता पत्युर्गृहेऽपि कयाचन।
कतिपयदिनोदञ्चत्प्रेम्णि प्रिये प्रवसत्यसौ कथयतु मनस्तापं कस्मै नवं नवकामिनी॥ 12 ॥
सान्त्वप्रायैः प्रणयवचनैर्गन्तुमापृच्छमाने कान्ते तिर्यङ्गमितवदना रुन्धती बाष्पपूरम्।
दीर्घोच्छ्वासस्थगनविकलोत्कम्पि नासापुटान्ता सङ्ख्याशून्यं गणयति मृगीलोचना कङ्कणानि॥ 13 ॥
यामीत्युक्ते हृदयपतिना पञ्चशः शङ्खभूषाः स्वैरं स्वैरं झटिति गलिताः पाणिपङ्केरुहाग्रात्।
नो यास्यामीत्यनुपदमिमां वाचमाकर्णयन्त्यास्तन्व्याः शेषा अपि चटचटेत्येव भङ्गं समीयुः॥ 14 ॥
आयाते श्रुतिगोचरं प्रियतमप्रस्थानकाले बलात्तल्पान्तःस्थितया तया जनमलं दृष्ट्वा चिरं मुग्धया।
सोच्छ्वासं दृढमन्युनिर्भरगलद्बाष्पाम्बुधौतं तया स्वं वक्त्रं विनिवेश्य भर्तृहृदये निःशब्दकं रुद्यते॥ 15 ॥
दृष्टः कातरनेत्रया चिरतरं बद्ध्वाञ्जलिं याचितः पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः।
इत्याक्षिप्य समस्तमर्थमघृणो गन्तुं प्रवृत्तः शठः पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः॥ 16 ॥
लग्ना नांशुकपल्लवे भुजलता नो द्वारदेशेऽर्पिता नो वा पादयुगे तया निपतितं तिष्ठेति नोक्तं वचः।
काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठस्तन्व्या बाष्पजलौघकल्पितनदीपूरेण रुद्धः प्रियः॥ 17 ॥
दूरं सुन्दरि निर्गतासि नगरादेषु द्रुमः क्षीरवानस्मादेव निवर्त्यतामिति शनैरुक्त्वाध्वगेन प्रियाम्।
गाढालिङ्गनचक्रितस्तनतटाभोगस्फुटत्कञ्चुकं वीक्ष्योरःस्थलमश्रुपूरितदृशः प्रस्थानभङ्गः कृतः॥ 18 ॥
यामि प्रेयसि वारिदागमदिने जानीहि मामागतं चिन्तां चेतसि मा विधेहि कथयत्येवं सबाष्पे मयि।
निःश्वासैः पवनायितं वरतनोरङ्गैः कदम्बायितं कान्त्या केतकपत्त्रकायितमहो दृग्भ्यां पयोदायितम्॥ 19 ॥
यामीत्यप्रियवादिनि प्रियतमे मुद्राभवत्कङ्कणं केलीसद्मबहिर्गतैकचरणे भूमौ शरीरस्थितिः।
अन्तर्धानगते पुनर्मृगदृशो वाच्या किमन्या दशा लाजास्फोट इव स्फुटत्यविरलं हारोऽपि वामभ्रुवः॥ 20 ॥
प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते॥ 21 ॥
गच्छामीति मयोक्तया मृगदृशा निःश्वासमुद्रेकिणं त्यक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेणैकेन मां चक्षुषा।
अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यतामित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः॥ 22 ॥
चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तोऽधुना।
सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलर्लोचनैः श्वासोत्कम्पकुचं निरीक्ष्य सुचिरं जीवाशया वारितः॥ 23 ॥