रतखिन्नतरां प्रातर्लज्जानम्रमुखीं वधूम्।
स्मरन्तीं रात्रिचरितं दृष्ट्वाप्नोति न को मुदम्॥ 1 ॥
राजते राजरामाया एष बिम्बाधरव्रणः।
सुधां पीत्वेव कान्तेन तच्छेषोऽयं समुद्रितः॥ 2 ॥
आच्छादयसि किं मुग्धे वस्त्रेणाधरपल्लवम्।
खण्डिता एव शोभन्ते वीराधरपयोधराः॥ 3 ॥
सखि दशनक्षतमधरे किं गोपयसे प्रयत्नेन।
सम्प्रति रजनिरहस्यं नयनालस्यं निवेदयति॥ 4 ॥
सम्वरणाय वधूटी बहुपरिपाटीं करोतु किं तेन।
सम्प्रति रजनिरहस्यं नयनालस्यं निवेदयति॥ 5 ॥
उषसि परिवर्तयन्त्या मुक्तादामोपवीततां नीतम्।
पुरुषायितवैदग्ध्यं लज्जावति कैर्न कलितं ते॥ 6 ॥
चन्दनं स्तनतटेऽधरबिम्बे यावकं घनतरं च सपत्न्याः।
प्रातरीक्ष्य कुपितापि मृगाक्षी सागसि प्रियतमे परितुष्टा॥ 7 ॥
दर्पणेषु परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः।
प्रेक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया॥ 8 ॥
किमपि कान्तभुजान्तरवर्तिनी कृतवती यदियं कलभाषिणी।
तदनुकृत्य गिरा गुरुसन्निदौ ह्रियमनीयत सारिकया वधूः॥ 9 ॥
धन्यासि या कथयसि प्रियसङ्गमेऽपि नर्मोक्तिचाटुकशतानि रतान्तरेषु।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि॥ 10 ॥
बहु जगद पुरस्तात्तस्य मत्ता किलाहं चकर च किल चाटु प्रौढयोषिद्वदस्य।
विदितमिति सखिभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा॥ 11 ॥
शशपदमणिमालं चन्द्ररेखाभिरामं ललितपुलकजालं लक्ष्यबिन्दुप्रवालम्।
वपुरनघममुष्या वक्ति कस्यापि यूनः सुरतकलहलीलासूक्ष्ममार्गाभियोगम्॥ 12 ॥
प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरीर्नवोढा न व्रीडामुकुलितमुखीयं सुखयति।
लिखन्तीनां पत्त्राङ्कुरमनिशमस्यास्तु कुचयोश्चमत्कारो गूढं करजपदमासां कथयति॥ 13 ॥
क्वचित्ताम्बूलाक्तः क्वचिदगुरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्गारी क्वचिदपि च सालक्तकपदः।
वलीभङ्गाभोगैरलकपतितैः कीर्णकुसुमैः स्त्रियः सर्वावस्थं कथयति रतं प्रच्छदपटः॥ 14 ॥
नखक्षतमुरःस्थलेऽधरदले रदस्य व्रणं च्युता बकुलमालिका विगलिता च मुक्तावली।
रतान्तसमये मया सकलमेतदालोकितं स्मृतिः क्व च रतिः क्व च क्व च तवालि शिक्षाविधिः॥ 15 ॥
वक्षस्ते दृढलग्नकर्कशकुचद्वन्द्वावभग्नान्तरं कण्ठः कङ्कणरत्नकोटिकलनासुव्यक्तमुद्राङ्कितः।
व्यत्यासव्यतिषञ्जितश्च तिलकः फाले तवायं सखे कस्याश्चित्प्रकटीकरोति सुरतप्रौढिं परां सुभ्रुवः॥ 16 ॥
तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ निर्धूताधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः।
काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोरेभिः कामशरैस्तदद्भुतमहो पत्युर्मनः कीलितम्॥ 17 ॥
यद्रात्रौ रहसि व्यपेतविनयं वृत्तं रसात्कामिनोरन्योन्यं शयनीयमीहितरसावाप्तिप्रवृत्तस्पृहम्।
तत्सानन्दमिलद्दृशोः कथमपि स्मृत्वा गुरूणां पुरो हासोद्भेदनिरोधमन्थरमिलत्तारं कथञ्चित्स्थितम्॥ 18 ॥
दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं वधूः।
कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चूपुटे व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम्॥ 19 ॥
धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलग्नेऽपि याः प्रागल्भ्यं रचयन्ति मन्मथविधावालम्ब्य धैर्यं महत्।
अस्माकं तु तदीयपाणिकमलेनोन्मोचयत्यंशुकं कोऽयं का वयमत्र किं च सुरतं नैव स्मृतिर्जायते॥ 20 ॥
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्वासो विश्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम्।
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽयं का वयमत्र किं नु सुरतं स्वल्पापि मे न स्मृतिः॥ 21 ॥
गाढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रसारादियं शय्या सम्प्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि।
गाढौष्ठग्रहपूर्वमाकुलतया पादाग्रसन्दंशकेनाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम्॥ 22 ॥
निद्रातुन्दिलशोणलोचनयुगं दत्ताङ्कदन्तच्छदं पर्यस्तालकवल्लि घर्मपटलप्रामृष्टपत्त्रावलि।
जृम्भाजृम्भितसीधुसौरभमिलद्भृङ्गीभिरङ्गीकृतस्तोत्रं शंसति वक्त्रमेव रजनीवृत्तान्तमेणीदृशः॥ 23 ॥