निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं पराप्ते।
श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा॥ 1 ॥
गुरुत्रासादासादितभवदुपालम्भवचसा मुहुः स्मारं स्मारं कथमपि निशीथे समगमम्।
इदानीं मुञ्च त्वं दयित पुनरेष्यामि समभूदुषःकालीनोऽयं चटुलचटकालीकलकलः॥ 2 ॥
प्रबुद्धायाः प्रातर्लसदलसदोर्वल्लिवलयं गलन्मल्लीदाम्नः शिथिलकबरीबन्धसमये।
प्रियालोके घूर्णन्नयनमसृणस्मेरमधुरो मुखे जृम्भारम्भी जयति भृशमिन्दीवरदृशः॥ 3 ॥
प्राणेशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते जातातङ्का रचयति चिरं चन्दनालेपनानि।
धत्ते लाक्षामसकृदधरे दन्तदन्तावघाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती॥ 4 ॥
धम्मिल्लं परिबध्नती नखमुखैः सीन्मतमातन्वती पश्यन्ती नखरोत्सवं कुचयुगे सव्यापसव्यं मुहुः।
नाभीसीमनि कुञ्चिताङ्गुलिदलं नीवीभरं रुन्धती शय्यागारविनिर्गतापि हृदयान्नाद्यापि निष्क्रामति॥ 5 ॥
एषा का भुक्तमुक्ता विलुलितवसना स्वेदलग्नान्तवस्त्रा प्रत्यूषे याति बाला मृग इव चकिता सर्वतः शङ्कयन्ती।
केनेदं वक्त्रपद्मं ह्यधरमधुरसं खण्डितं केन पीतं स्वर्गः केनाद्य भुक्तो हरनयनहतो मन्मथः कस्य तुष्टः॥ 6 ॥