ततः कोकवधूबन्धुर्बन्धूककुसुमप्रभः।
उदयाद्रिशिरोरत्नमुद्ययौ तेजसां निधिः॥ 1 ॥
निजांशुकावृतां प्राचीं चुम्बत्यर्केऽतिरागिणीम्।
लज्जयेव ययौ क्वापि श्यामा मीलितलोचना॥ 2 ॥
निसर्गसौरभोद्भ्रान्तभृङ्गसङ्गीतशालिनी।
उदिते वासराधीशे स्मेराजनि सरोजिनी॥ 3 ॥
1पुरुहूतदिगङ्गना प्रसूता रविमुद्दामसुतं चिहादुपेतम्।
अलिनो नलिनोदराद्विमुक्ताः प्रियबाहुद्वयबन्धनान्नवोढाः॥ 4 ॥
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्॥ 5 ॥
घटमानकोककुचमामृशन्करैर्विकसत्पयोजनयनावलोकितः।
परिचुम्बतीदमरुणप्रभाधरं रविरद्य वारवनितामुखं मुहुः॥ 6 ॥
आगत्य सम्प्रति वियोगविसंस्थुलाङ्गीमम्भोजिनीं क्वचिदपि क्षपितत्रियामः।
एतां प्रसादयति पश्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः॥ 7 ॥2
उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा गायन्ति मञ्जु मधुपा गृहदीर्घिकासु।
एतच्चकास्ति च रवेर्नवबन्धुजीवपुष्पच्छदाभमुदयाचलचुम्बि बिम्बम्॥ 8 ॥
भूयो निपीय लवणाम्बुधिमाप्रभातं पुञ्जीभवन्नुदयते तपनच्छलेन।
और्वाग्निरम्बरपयोनिधिमद्य पातुं लीनोडुबुद्बुदकदम्बमिति प्रतीमः॥ 9 ॥
अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम्।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्कुपितकपिकपोलक्रोडताम्रस्तमांसि॥ 10 ॥
करनखरविदीर्णध्वान्तकुम्भीन्द्रकुम्भात्तुहिनकणमिषेण क्षिप्तमुक्ताप्ररोहः।
अयमुदयधरित्रीधारिमूर्धाधिरूढो नयनपथमुपेतो भानुमत्केसरीन्द्रः॥ 11 ॥
नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानम्।
जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः॥ 12 ॥
विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान् दिग्भिराकृष्यमाणः।
कृतचपलविहङ्गालापकोलाहलाभिर्जलनिधिजलमध्यादेष उत्तार्यतेऽर्कः॥ 13 ॥
पयसि सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया वाडवाग्नेः।
यदयमिदमिदानीमङ्गमुद्यन्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान्॥ 14 ॥
अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव।
नवकरनिकरेण स्पृष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रतीव॥ 15 ॥
उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्गन् सकमलमुखहासं वीक्षितः पद्मिनीभिः।
विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः॥ 16 ॥
क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम्।
भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरतटपीठादुत्थितः सप्तसप्तिः॥ 17 ॥
उदयमयते दिङ्मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः।
रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुञ्जो विभाति विभाकरः॥ 18 ॥
अयं खलु मृणालिनीनवविलासवैहासिकस्त्विषां वितपते पतिः सपदि दृश्यमाना निजाः।
स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपर्यतितवृत्तयो घृसुणपङ्कपत्राङ्कुराः॥ 19 ॥
आयान्त्या दिवसश्रियः पदतलस्पर्शानुभावादिव व्योमाशोकतरोर्नवीनकलिकागुच्छः समुज्जृम्भते।
आतन्वन्नवतंसविभ्रममसावाशाकुरङ्गीदृशामुन्मीलत्तरुणप्रभाकरकरस्तोमः समुद्भासते॥ 20 ॥
एतत्तर्कय चक्रवाकहृदयाश्वासाय तारागणग्रासाय स्फुरदिन्दुमण्डलपरीहासाय भासां निधिः।
दिक्कान्ताकुचकुम्भकुङ्कुमरसन्यासाय पङ्केरुहोल्लासाय स्फुटवैरकैरववनत्रासाय विद्योतते॥ 21 ॥
मीलत्कैरवलोचनां प्रबिगलत्ताराच्छहारावलीं ग्लायच्चन्द्रमुखां विशृङ्खलतमः केशां सशेषाम्बराम्।
प्राप्तः सत्वरमित्वरीमिव बलादुद्गाढरागैः करैराकर्षन्निव यामिनीमनुपतत्यम्भोजिनीवल्लभः॥ 22 ॥
यावन्नीरनिधेः प्रभातसमयः प्रोद्धृत्य लोकत्रयीमाणिक्यं रविबिम्बमम्बरवणिग्वीथीपथे न्यस्यति।
तावत्कर्तुमिवास्य मूल्यमुचितं पद्माकरेण स्वयं लक्ष्मीर्लब्धविकासपङ्कजकरन्यस्ता पुरः स्थाप्यते॥ 23 ॥
मञ्जिष्ठारुणदीधितिर्मधुकरैर्माङ्गल्यगीतिस्ततः कोकाह्लादपटुः सरोरुहवनं प्रीत्या समुज्जृम्भयन्।
लोकालोककरः करैश्च तमसां स्तोमं समुत्सारयन्नारोहत्युदयाचलं रविरयं बन्धूकगुच्छच्छविः॥ 24 ॥
कीलालैः कुङ्कुमानां सकलमपि जगज्जालमेतन्निषिक्तं मुक्ताश्चोन्मत्तभृङ्गा विघटितकमलक्रोडकारागृहेभ्यः।
उत्सृष्टं गोसहस्रं किमुत कलकलः श्रूयते च द्विजानां भाग्यैर्वृन्दारकाणां हरिहयहरिता सूयते पुत्ररत्नम्॥ 25 ॥