लता पुष्पवतीं स्पृष्ट्वा स्नातो विमलवारिणा।
पुनः सम्पर्कशङ्कीव मन्दं चरति मारुतः॥ 1 ॥
लवङ्गलतिकाभङ्गदयालुर्दक्षिणानिलः।
कथमुन्मूलयत्येष मानिनीमानपर्वतान्॥ 2 ॥
सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्जरितः।
पुनरपि विरहिश्वासैर्मलयमरुन्मांसलीक्रियते॥ 3 ॥
दरफुल्लकमलकाननसौरभसम्भारमन्थरः पवनः।
दयितोरसि शयितामपि दयितां सन्तापयाञ्चक्रे॥ 4 ॥
भिक्षितकमलकुटुम्बाः शिक्षितगजगामिनीगतयः।
लक्षितहिमगिरिपादाः प्रातरमी मातरिश्वानः॥ 5 ॥
आदाय वकुलगन्धानन्धीकुर्वन्पदे पदे भ्रमरान्।
अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः॥ 6 ॥
अपहाय शनैः पटीरवाटीरिह लाटीजनमानलुण्ठनाय।
समुदेति मनोजराजधाटीपरिपाटीपटुरेष गन्धवाहः॥ 7 ॥
वासो विधूय स्तनयोरमुष्याः कपोलकीर्णां कबरीमुदस्य।
अवारितः प्रोञ्छति वारिधारां मुखे मृगाक्ष्याः सुकृती समीरः॥ 8 ॥
अरविन्दवृन्दमकरन्दतुन्दिलो मरुदेति मन्दमिह मन्दराचलात्।
सुरतान्ततान्तसुदतीमतल्लिकाकबरीपरीमलझरीपरीवृतः॥ 9 ॥
उत्सार्य कुन्तलमपास्य दुकूलकूलमुन्नाम्य बाहुलतिकामलसास्तरुण्यः।
स्वेदाम्बुसिक्ततनवः स्पृहयन्ति यस्मै तस्मै नमः सुकृतिने मलयानिलाय॥ 10 ॥
चोलाङ्गनाकुचनिचोलतलानुलीनो द्राक्केरलीविरलकुन्तलकम्पलोलः।
लाटीललाटतटशोषणमानसोयं फुल्लारविन्दघनबन्धुरुपैति वायुः॥ 11 ॥
वैभातिको मरुदनुक्रमवर्धमानपद्माटवीपरिमलप्रसरानुमेयः।
आयाति सोऽयमलसोत्थितसारसाक्षीपुम्भावनृत्यपुनरुद्यमसूत्रधारः॥ 12 ॥
झञ्झानिलोऽपि सुरतान्तनितान्ततान्तकान्ताकुचान्तघटघर्ममपाकरोति।
भूयोऽभिलाषजननी पुनरन्यथैव स्वेदापनोदनकला मलयानिलस्य॥ 13 ॥
विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः।
प्रमदमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः॥ 14 ॥
स्तनपरिसरभागे दूरमावर्तमानाः स्फुटतनिमनिमध्ये किञ्चिदेव स्खलन्तः।
ववुरलघुनितम्बाभोगरुद्धा वधूनां निधुवनसखेदच्छेदिनः प्राह्णवाताः॥ 15 ॥
दरविगलितमल्लीवल्लिचञ्चत्परागप्रकटितपटवासैर्वासयन्काननानि।
इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणप्राणवद्गन्धवाहः॥ 16 ॥
सललितमलकानां वल्लरीर्नर्तयन्तो मधुसुरभिमुखाब्जोच्छ्वासगन्धानुबन्धाः।
नवतररतभाजां योषितां स्वेदबिन्दून्सतृष इव पिबन्तो वान्ति मन्दं समीराः॥ 17 ॥
उषसि मलयवासी जालमार्गप्रविष्टो विकचकमलरेणुं व्याकिरन्मोहचूर्णम्।
सपदि शमितदीपो वायुचोरो वधूनां हरति सुरतखेदस्वेदमुक्ताफलानि॥ 18 ॥
कुसुमपरिमलेनामोदितालिर्लतानां वलितकिसलयानां लास्यलीलोपदेष्टा।
लुलितकमलवृन्दः शीकरासारवोढा मृदुमलयसमीरो वाति वैभातिकोऽयम्॥ 19 ॥
विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः।
क्वचिदयमनवस्थः स्थास्नुतामेति वायुर्वधुकुसुमविमर्दोद्गन्धिवेश्मान्तरेषु॥ 20 ॥
पुरातनपरीमलप्रकरमेदुरा मारुता न वान्ति मुकुलीभवत्कुमुदगर्भलीना इव।
चरन्ति नवसौरभाः पुनरभी समीराङ्कुराः सजृम्भणसरोजिनीसरसिजास्यमुक्ता इव॥ 21 ॥
अमी तटसमीपनिर्झरतरङ्गरिङ्गत्पयोजडीकृतपटीरभूरुहकुटीरसञ्चारिणः।
मनो विधुरयन्ति मे मलयमेखलामेदुरादुरासदवनप्रियप्रियतमारुता मारुताः॥ 22 ॥
लाताकुञ्जे गुञ्जन्मदवदलिपुञ्जं चपलयन्समालिङ्गन्नङ्गं दृढतरमनङ्गं प्रबलयन्।
मरुन्मदं मन्दं दलितमरविन्दं तरलयन्रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि॥ 23 ॥
अनन्यक्षुण्णश्रीर्मलयवनजन्मायमनिलो निपीय स्वेदाम्बु स्मरमकरसम्भुक्तविभवम्।
विदर्भाणां भूरि प्रियतमपरीरम्भरभसप्रसङ्गादङ्गानि द्विगुणपुलकासञ्जि तनुते॥ 24 ॥
वृथा धूलीधाराः परिकिरसि वात्याः प्रथयसे नवावेगः कोऽयं पवन तव हा नन्वसमये।
रतान्तश्रान्ताभिः स्तिमितनयनान्ताभिरनिशं स्मृतौ यत्कान्ताभिर्न सुलभतरः क्वापि च भवान्॥ 25 ॥
वारं वारं धुतकुसुमितारण्यरेवातटे वा सेवापुण्यं परिणतमिदं तावकं तर्कयामि।
यत्त्वां मत्वान्तिकमुपगतं कामवामाभिरामा रामाः स्वैरं कुचकलशतो वस्त्रमुत्सारयन्ति॥ 26 ॥
चूतश्रेणीपरिमलमुषश्चञ्चरीकानुयाता भूयो भूयः कुवलयकुटीकोटरे लीयमानाः।
मन्दं मन्दं सुरतविरतौ वान्ति सीमन्तिनीनां गण्डाभोगश्रमजललवग्राहिणो गन्धवाहाः॥ 27 ॥
रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लतो व्यालोलालकमञ्जरीः प्रचलयन्धुन्वन्नितम्बाम्बरम्।
प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजःपुञ्जामोदमनोहरो रतिरसग्लानिं हरन्मारुतः॥ 28 ॥
1उत्सिक्तः कुसुमासवैः कुमुदिनीं 2राजप्रियां [^3]पुष्पिणीमालिङ्गन्निशि निर्भयं परिचयं कुर्वन्पुनः 3पल्लवैः।
यावत्पङ्क4जसौरभस्वमखिलं गृह्णन्लघु5 प्रस्थितस्तावत्कल्य6 उपस्थिते मरुदयं विष्वग्भयाद्धावति॥ 29 ॥
(1. मत्तः [पक्षे] सम्पृक्तः.
(3. पुष्पयुक्ताम्; [पक्षे] रजस्वलाम्.)ट
अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलप्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः।
किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदयादुन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः॥ 30 ॥
नारीणां मृगनाभिकुङ्कुमरसप्रक्षालनश्यामलान् सम्भोगश्रमशीकरान्परिहरन्नाकम्पयन्कुन्तलान्।
पुष्पामोदमनोरमान्विगलितानम्भोजगन्धं वहन्प्रातस्त्यः पवनो वहत्ययमलं स्वान्तप्रमोदप्रदः॥ 31 ॥
प्रातः सीमन्तिनीनां निधुवनलुलितान्स्रंसयन्केशपाशानुन्मीलत्पङ्कजान्तःपरिमलसुरभिः स्फारयन्कामलीलाः।
स्वच्छावश्यायबिन्दून्दिशि दिशि विकिरन्स्थूलमुक्ताफलाभान् धूलीभिः केतकीनां धवलितभुवनो वाति मन्दं नभस्वान्॥ 32 ॥
धुन्वानाश्चन्दनालीं बकुलमुकुलजां धूलिमुद्धूलयन्तश्चुम्बन्तश्चूतयष्टीः परिमलबहलांश्चम्पकान् कम्पयन्तः।
आरादारामसीमातटघटितघटीयन्त्रनिर्मुक्तवारां धारामाधारयन्तः श्रमशमपटवो वान्त्यमी गन्धवाहाः॥ 33 ॥
कुप्यल्लङ्केशबाहुप्रकरनियमिताशेषलेखाम्बुजाक्षीशापक्षीणाः क्षरन्तः क्षणपरिकलिताः केकिनां कामिनीभिः।
कार्णाटीनामकाण्डे मृगमदमसृणं केशपाशं स्पृशन्तः पम्पासम्पातसम्पा मलयजमरुतो जातकम्पाः पतन्ति॥ 34 ॥
कृत्वा कार्णाटकान्ताकुचकनकगिरिप्रान्तसञ्चारलीलां झम्पामासाद्य पम्पापयसि वनभुवि क्षिप्तमल्लीरजस्काः।
आकर्षन्तः पुरस्तान्निगडमिव कलध्वानपुष्पंधयालीं धावन्त्येते मदान्धा मदननरपतेः सिन्धुरा गन्धवाहाः॥ 35 ॥
एते पाटीरवाटीनवविटपनटीलास्यशिक्षातिदक्षा दोलाखेलत्पुरन्ध्रीश्रमजलकणिकाजालपातिप्रतानाः।
सौरभ्यादापतद्भिर्मधुकरपटलैः पृष्ठतोऽनुप्रयाताः कामाग्नेः स्फारधाय्याः1 पथिककुलवधूबद्धवैराः समीराः॥ 36 ॥
एष क्रीडान्तताम्यत्कुसुमपुरवधूवक्त्रसौरभ्यबन्धुर्मुग्धं निद्राजडानां रसितमनुसरो द्राघयन् सारसानाम्।
आवात्यङ्गानुकूलश्चलितविचकिलश्रेणिगन्धानुधावद्रोलम्बोद्धुष्यमाणस्मरजयबिरुदाडम्बरो मातरिश्वा॥ 37 ॥
कावेरीवारिवेल्लल्लहरिपरिकरक्रीडनक्लान्तशान्तस्फीतश्रीखण्डखण्डभ्रमणभरभवद्भूरिसौरभ्यगर्भाः।
चोलस्त्रीचीनचेलाञ्चलकलनकलाक्रान्तकान्ताकुचान्ता वान्ति प्रेमाग्निकीलाकलितवरवधूबद्धवैराः समीराः॥ 38 ॥
चञ्चत्कर्पूरचौरा मलयगिरिगुरुग्रावहावादवाप्ता मन्दानन्दैर्मिलिन्दैरहमहमिकयानुद्रवद्दीर्घपान्थाः।
कावेरीवारिसेका विरलतरतरत्तीरवानीरसिक्ता मुक्तार्द्राः स्वेदनिद्रालव इव पवनास्तालवन्यां विशन्ति॥ 39 ॥
लीलादोलातिखेलारसरभसलसद्बालचेलाञ्चलानां चोलीनामापिबन्तो मृगमदसुरभिस्वेदबिन्दूनमन्दान्।
लोलन्तः केरलीनां कुचकलशलसत्कुङ्कुमालेपनेषु श्लिष्यन्तो मालवीनां मलयजमधुराः कञ्चुकीर्वान्ति वाताः॥ 40 ॥
भृङ्गालीकण्ठमालाः स्फुटितकमलिनीधूलिभिर्धूसराङ्गाश्चञ्चन्तश्चन्द्रकल्पालघुतरलहरीशीकरासारलालाः।
अङ्कादङ्कं व्रजन्तो विकसितविलसत्केतकीमालतीनां मोदन्ते मन्दमन्दं मलयगिरिदरीगर्भतो वातपोताः॥ 41 ॥