ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्॥ 1 ॥
कुक्कुटे कुर्वति क्वाणमाननं श्लिष्टयोस्तयोः।
दिवाकरकराक्रान्तं शशिकान्तमिवाबभौ॥ 2 ॥
विकसितसङ्कुचितपुनर्विकस्वरेष्वम्बुजेषु दुर्लक्ष्याः।
कलिकाः कथयति नूतनविकासिनीर्मधुलिहामर्धः॥ 3 ॥
प्रियवसतेरपयान्त्यो मिथः करम्बितकराम्बुजन्मानः।
करजपदव्रणविरलस्तनपुलकममूः किमपि विवदन्ते॥ 4 ॥
आश्लेषशेषा रतिरङ्गनानामामोदशेषा कुचकुङ्कुमश्रीः।
तूणीरशेषः कुसुमायुधोऽपि प्रभातशेषा रजनी बभूव॥ 5 ॥
नभोवनं नक्तमसौ विगाह्य नक्षत्रसेनासहितः शशाङ्कः।
कराग्रलग्नान्कतिचित्प्रहृत्य पान्थान्प्रभाते प्रपलायतेऽद्य॥ 6 ॥
चन्द्रकान्तगलदम्बुनाधुना हा चकोरनयने समाश्रिते।
कोकलोकहृदयानलः पुनः सूर्यकान्तमणिमाश्रयत्यहो॥ 7 ॥
सन्निगृह्य चिकुरं तमोमयं यामिनी तदनु केलिविच्युतम्।
कुर्वती श्रवसि चन्द्रमण्डलं कुण्डलं गगनकेलिमुज्झति॥ 8 ॥
तरुणां दिवाकरमयूखमञ्जरीमरुणामशोकशिखरावलम्बिनीम्।
कमनीयपुष्पमनसा समाश्रितां मधुपो विडम्बयति मञ्जुभाषिणीम्॥ 9 ॥
प्राची दिगम्बरमणौ दयिते विभाते प्रान्तेऽम्बरं स्पृशति वासकसज्जिकेयम्।
धीरा जगाद रमणस्य न भूषणानि रोषारुणा त्यजति तारकभूषणानि॥ 10 ॥
यात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतारुणपुरःसर एकतोऽर्कः।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इवैष दशान्तरेषु॥ 11 ॥
अन्तर्हिते शशिनि सैव कुमुद्वतीयं दृष्टिं न नन्दयति संस्मरणीयशोभा।
इष्टप्रवासजनितान्यबलाजनेन दुःखानि नूनमतिमात्रदुरुद्वहानि॥ 12 ॥
प्रालेयमिश्रमकरन्दकरालकोशैः पुष्पैः समं निपतिता रजनीप्रबुद्धैः।
अर्कांशुभिन्नमुकुलोदरसान्द्रमन्धसंसूचितानि कमलान्यलयः पतन्ति॥ 13 ॥
दिङ्मण्डलीमुकुटमण्डनपद्मरागरत्नाङ्कुरे किरणमालिनि गर्भितेऽपि।
सौखप्रसुप्तिकमधुव्रतचक्रवालवाचालपङ्कजवनीसरसाः सरस्यः॥ 14 ॥
पीत्वा भृशं कमलकुङ्मलशुक्तिकोषा दोषातनीं तिमिरवृष्टिमथ स्फुटन्तः।
निर्यन्मधुव्रतकदम्बमिषाद्वमन्ति बिभ्रन्ति कारणगुणाविव मौक्तिकानि॥ 15 ॥
आपाटलैः प्रथममङ्कुरितैर्मयूखैरह्नांपतिः प्रथमशैलविहारिणीनाम्।
सोऽयं करोति सुरपुङ्गवसुन्दरीणां कर्णेषु कल्पतरुपल्लवभङ्गलक्ष्मीम्॥ 16 ॥
अन्यत्र यापितनिशं परिलोहिताङ्गमन्याङ्गनागतमिवागतमुष्णरश्मिम्।
प्रातर्निरीक्ष्य कुपितेव हि पद्मिनीयमुत्फुल्लहल्लकसुलोहितलोचनाभूत्॥ 17 ॥
का काबला निधुवनश्रमपीडिताङ्गी निद्रां गता यदितबाहुलतानुबद्धा।
सा सा तु यातु भवनं मिहिरोद्गमोऽयं सङ्केतवाक्यमिति काकचया वदन्ति॥ 18 ॥
दिशि दिशि मृगयन्ते वल्गुना घासमेते मुहुरपगतनिद्राः सप्तयो हेषितेन।1
2अयमपि च सरोषैः कामिभिः श्रूयमाणो नदति मधुरतारं ताम्रचूडो विहङ्गः॥ 19 ॥(30
अविरतमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनाभिवीक्ष्य।
इदमुदवसितानामस्फुटालोकसम्पन्नयनमिव सनिद्रं घूर्णते दैपमर्चिः॥ 20 ॥
रतिरभसविलासाभ्यासतान्तं न यावन्नयनयुगममीलत्तावदेवाहतोऽसौ।
रजनिविरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः॥ 21 ॥
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति।
मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नौ मनुष्यः॥ 22 ॥
विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशोऽवकाशम्।
रतिपरिचयनश्यनैन्द्रतन्द्रः कथञ्चिद्गमयति शयनीये शर्वरीं किं करोतु॥ 23 ॥
द्रुततरकरदक्षाः क्षिप्तवैशाखशैले दधति दधनि धीरामारवान्वारिणीव।
शशिनमिव सुरौघाः सारमुद्धर्तुमेते कलशिमुदधिगुर्वीं बल्लवा लोडयन्ति॥ 24 ॥
परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नभू3र्ध्वज्ञुरेव।
रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः॥ 25 ॥
कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम्।
हिमरुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः॥ 26 ॥
शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव।
व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमिलितमनिन्द्यैरम्बरान्तं वहन्ती॥ 27 ॥
व्रजति विषयमक्ष्णामंशुमाली न यावत्तिमिरमखिलमस्तं तावदेवारुणेन।
परपरिभवितेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि॥ 28 ॥
विगततिमिरपङ्कं पश्यति व्योम यावद्धुवति विरहखिन्नः पक्षती यावदेव।
रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी॥ 29 ॥
अरुणजलदराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी।
अनुपतति विरावैः पत्त्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव॥ 30 ॥
अयमुदयमहीभृन्मूर्ध्नि पाणिं गृहीत्वा दिवसपतिरहौषीदिन्दुपादान्हवींषि।
अरुणकिरणवह्नौ कन्यका पौरुहूती हरिदपि किमकार्षीत्तारकालाजहोमम्॥ 31 ॥
कुमुदवनम1पश्रि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः2 प्रीतिमांश्चक्रवाकः।
उदयमहिमरोचिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः॥ 32 ॥
4लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः।3
तिमिरमिव दधानाः 5स्रंसिनः केशपाशान6वनिपतिगृहेभ्यो यान्त्यमूर्वा7रवध्वः॥ 33 ॥
शिथिलयति सरागो यावदर्को नलिन्याः कमलमुकुलनीवीग्रन्थिमुद्रां करेण।
प्रविकसदलिमाला गुञ्जितैर्मञ्जुशब्दा जनयति मुदमुच्चैः कामिनां कामिनीव॥ 34 ॥
नभसि विरलतारा मौक्तिकानीव भान्ति स्फुटतरमयमस्तक्ष्माधरं चुम्बतीन्दुः।
रविरुदयधरित्रीधारिमूर्धानमेतुं हृदयमनु नितान्तोल्लासमङ्गीकरोति॥ 35 ॥
अभूत्प्राची पिङ्गा 8रसपतिरिव प्राश्य कनकं गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि।
क्षणं क्षीणास्तारा नृपतय 9इवानुद्यमपरा न दीपा राजन्ते द्रविणरहितानामिव गुणाः॥ 36 ॥
इतः शुक्ला चन्द्रद्युतिभिरिह रक्तारुणकरैस्तमिस्रैरप्यन्तःस्खलितगतिभिर्मेचकरुचि-।
प्रभातश्रीरेषा विलसति पुरस्था सुकृतिनां मिमङ्क्षूणां जह्नुद्युमणिविधिजासङ्गम इव॥ 37 ॥
तमोभिः पीयन्ते गतवयसि पीयूषवपुषि ज्वलिष्यन्मार्तण्डोपलपटलधूमैरिव दिशः।
सरोजानां कर्षन्नलिमयमयस्कान्तमणिवत्क्षणादन्तःशल्यं तपति पतिरद्यापि न रुचाम्॥ 38 ॥
इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्तमिस्रामर्माणं किरणकलिकामम्बरमणिः।
इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्त्राङ्कुरमकरिकामुद्रितमुरः॥ 39 ॥
द्रुमाः पाण्डुप्राया धृतनिबिडगर्भाः स्त्रिय इव प्रफुल्लास्ते कन्दा नृपतिकृतमाना इव जनाः।
पिको मन्दं मन्दं हृदि मदननामानि जपति प्रभोरग्रे पूर्वापरिचितसभाकः कविरिव॥ 40 ॥
विरलविललीभूतास्ताराः कलौ सुजना इव व्यपसरति च ध्वान्तं चित्तात्सतामिव दुर्जनः।
मन इव मुनेः सर्वत्रापि प्रसन्ममभून्नभो विगलति निशा क्षिप्रं लक्ष्मीरनुद्यमिनामिव॥ 41 ॥
व्रजत्यपरवारिधिं 1रजतपिण्डपाण्डुः शशी न भान्ति जलबुद्बुदद्युतिसपत्निकास्तारकाः।
कुरण्टकविपाण्डुरं दधति धाम दीपाङ्कुराश्चकोरनयनारुणा भवति दिक्च 2सौत्रामणी॥ 42 ॥
अयं मृदुमृणालिनीवनविलासवैहासिकस्त्विषां वितपते पतिः सपदि दृश्यमाना निजाः।
स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपर्ययितवृत्तयो घृसृणपङ्कपत्त्राङ्कुराः॥ 43 ॥
जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टैर्हस्तैर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः।
स्त्रीभिः सार्धं घनपरिमलस्तोकलक्ष्याङ्गरागा मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः॥ 44 ॥
यः सैन्ये स्मरपार्थिवस्य विरहि4प्रत्यर्थिनामग्रणी3र्ज्योत्स्ना5निर्झरमुज्झति स्म जगतां यस्तापनिर्वारणम्।
सोऽयं तारकनायकः किमपरं 6शृङ्गारसञ्जीवनं जातः पृष्ठपरागपाण्डुरजर7त्कूष्माण्डपिण्डाकृतिः॥ 45 ॥
ये कुण्ठीकृतवल्लभप्रणतयः शस्त्रैरनङ्गस्य ये न प्राप्ताश्च निशीथिनीपतिकरैः शैथिल्यवीथीमपि।
ते निःशङ्कविटङ्कतालुतुमुलप्रोतप्लुतप्लावितैश्छिन्नाः कुक्कुटकूजितैर्मृगदृशां मानग्रहग्रन्थयः॥ 46 ॥
कान्ते जग्मुषि 8ताम्रचूडरटितं श्रुत्वा प्रबुद्धा 9जवात्किञ्चि10द्वासवदिङ्मुखं प्रविकसद्दृष्ट्वा गवाक्षाध्वना।
सन्त्रासेन समीरिता प्रियतमप्रेम्णावरुद्धा शनैरुत्थानोपनिवेशनानि कुरुते तल्पे मुहुः पांसुला॥ 47 ॥11
निर्यान्त्या12 रति13वेश्मनः 14परिणतप्रायां विलोक्य 15क्षपां गाढालिङ्गनचुम्बनानि बहुशः कृत्वाप्यसन्तुष्टया।
एकं भूमितले निधाय चरणं तल्पे 16प्रकल्प्यापरं तन्वङ्ग्या 17परिवर्तिताङ्गलतया 18प्रेयांश्चिरं चुम्बितः॥ 48 ॥
पद्मिन्याः सकलां विधाय विकलां1 ताराधिपः 2सम्पदं तत्प्रेयस्युदयोन्मुखे सति रवावुद्विग्नतामाश्रितः।4
3ताराः स्वस्य करैर्विकृष्य सहसा गच्छन्नितोऽस्ताचलं लग्नाः काश्चन ताः प्रभाकरकरे पश्यन्परिम्लायति॥ 49 ॥
एते केतकधूलिधूसररुचः शीतद्युतेरंशवः प्राप्ताः सम्प्रति पश्चिमस्य जलधेस्तीरं जराजर्जराः।
अप्येते विकसत्सरोरुहवनीदृक्पातसम्भाविताः प्राचीरागमुदीरयन्ति तरणेस्तारुण्यभाजः कराः॥ 50 ॥
सद्यः सङ्घटमानकोकमिथुनव्याजेन पीनस्तनद्वन्द्वव्यञ्जितयौवनोज्ज्वलरुचो निर्माय दिक्कन्यकाः।
दुर्दैवाक्षरमालिकामिव झटित्याकृष्य भृङ्गावलीं लक्ष्मीमम्बुजिनीजनस्य तनुते देवस्त्विषामीश्वरः॥ 51 ॥
उन्मीलन्ति निशानिशाचरवधूत्प्रोच्चाटनामान्त्रिकाः सायं सालससुप्तपङ्कजवनप्रोद्बोधवैतालिकाः।
फुल्लत्पङ्कजकोशगर्भकुहरप्रोद्भूतभृङ्गावलीझङ्कारप्रणवोपदेशगुरवस्तीव्रद्युतेरंशवः॥ 52 ॥
एतत्तर्कय चक्रवाकसुदृशामाश्वासनादायिनः प्रौढध्वान्तपयोधिमग्नजगतीदत्तावलम्बोत्सवाः।
दीप्तांशोर्विकसन्ति दिङ्मृगदृशां काश्मीरपङ्कोदकव्यात्युक्षीचतुराः सरोरुहवनश्रीकेलिकाराः कराः॥ 53 ॥
द्वित्रैर्व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैर्ज्योत्स्नापानभरालसेन वपुषा मत्ताश्चकोराङ्गनाः।
यातोऽस्ताचलचूलमुद्वसमधुच्छत्त्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप्॥ 54 ॥
जाताः पक्वपलाण्डुपाण्डुमधुरच्छायाकिरस्तारकाः प्राचीमङ्गुरयन्ति किञ्चन रुचो राजीवजीवातवः।
लूतातन्तुवितानवर्तुलमितो बिम्बं दधच्चुम्बति प्रातः प्रोषितरोचिरम्बरतलादस्ताचलं चन्द्रमाः॥ 55 ॥
प्राचीविभ्रमकर्णिकाकमलिनीसम्वर्तिकाः सम्प्रति द्वे तिस्रो रमणीयमम्बरमणेर्द्यामुच्चरन्ते रुचः।
सूक्ष्मोच्छ्वासमपीदमुत्सुकतया सम्भूय कोषाद्बहिर्निष्क्रामद्भ्रमरौघसम्भ्रमभरादम्भोजमुज्जृम्भते॥ 56 ॥
एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां कुर्वाणा समकोचयद्दशशतान्यम्भोजसम्वर्तिकाः।
भूयो।़पि क्रमशः प्रसारयति ताः सम्प्रत्यमूनुद्यतः सङ्ख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान्॥ 57 ॥
प्रत्यासन्नसुरेन्द्रसिन्धुरशिरःसिन्दूरसान्द्रारुणा यत्तेजस्त्रसरेणवो वियदितः प्राचीनमाचिन्वते।
शङ्के सम्प्रति यावदभ्युदयते तत्तर्कुटङ्कोन्मृजारज्यद्बिम्बरजश्छटावलयितो देवस्त्विषामीश्वरः॥ 58 ॥
प्रत्यग्रज्वलितैः पतङ्गमणिभिर्नीराजिता भानवः सावित्राः कुरुविन्दकन्दलरुचः प्राचीमलङ्कुर्वते।
प्रौढध्वान्तकरालितस्य वपुषश्छायाछलेन क्षणादप्रक्षालितनिर्मलं जगदहो निर्मोकमुन्मुञ्चति॥ 59 ॥
स्तोकोन्निद्रनिदाघदीधितिमहस्तन्द्रालुचन्द्रातपास्तायन्ते ककुभो रथाङ्गगृहिणीगार्हस्थ्यगर्हाभिदः।
अद्यापि स्वकुलायशाखिशिरसि स्थित्वा रुवन्तो महुस्तूष्णीं प्रत्यभिजानते बलिभुजो भीताः स्वयूथ्यस्वरान्॥ 60 ॥
प्राचीं वासकसज्जिकामुपगते भानौ दिशां वल्लभे पश्यैता रुचयः पतङ्गदृषदामाग्नेयनाडिन्धमाः।
लोकस्य क्षणदानिरङ्कुशरसौ सम्भोगनिद्रागमौ कोकद्वन्द्वकुमुद्वतीविपिनयोर्निक्षेपमातन्वते॥ 61 ॥
मालिन्यं परिदृश्यते हिमरुचौ मन्दश्रियस्तारकाः शीताः केचन सञ्चरन्ति कमलामोदस्पृशो मारुताः।
आसीदन्ति च चक्रवाकमिथुनान्यन्योन्यमुत्कण्ठया पादैस्ताडितकैरवा मधुलिहो गच्छन्ति पद्माटवीम्॥ 62 ॥
किञ्चिद्विश्लथकेशवान्तकुसुमाः क्रीडाविलोलांशुका लुप्तालुप्तशरीरचन्दनतया लोकैकनेत्रोत्सवाः।
सम्भोगश्रमविह्वलैरवयवैः सङ्केतशालान्तरान्निद्राशेषकषायितार्धनयना निर्यान्ति वाराङ्गनाः॥ 63 ॥
सौरभ्ये चलिते रसे विगलिते चाप्तालिवर्गे गते म्लानातीव कुमुद्वतीयमधुना मूर्छां परामृच्छति।
तामुद्वीक्ष्य तथाविधां कमलिनी जाता प्रहासोन्मुखी हन्तोदीक्ष्य विपन्नवैरिवनितां का वा न सन्तुष्यति॥ 64 ॥
आलोकैरतिपाटलैरचरमां विस्तारयद्भिर्दिशं नक्षत्रद्युतिमाक्षिपद्भिरचिरादाशङ्क्य सूर्योदयम्।
पुञ्जीभूय भयादिवान्धतमसं मन्ये द्विरेफच्छलान्मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते॥ 65 ॥
भिन्दानो मानिनीनां पतिषु रुषमयं हर्म्यपारावतेभ्यो वाचालत्वं ददानः कवितृषु कविताप्रातिभं सन्दधानः।
प्रातस्त्यस्तूर्यनादः स्थगयति गगनं मांसलः पांशुतल्पादस्वल्पादुत्थितानां नरवरकरिणां शृङ्खलासिञ्जितेन॥ 66 ॥
कुर्वन्नाभुग्नपृष्ठो मुखनिकटकटीस्कन्धरोमातिरश्चीं लोलेनाहन्यमानस्तुहिनकणमुचा चञ्चता केशरेण।
निद्राकण्डूकषायं कषति निबिडितश्रोत्रशुक्तिस्तुरङ्गः त्वङ्गत्पक्ष्माग्रलग्नप्रतनुबुसकणं कोणमक्ष्णः खुरेण॥ 67 ॥
कोकानुद्ग्रीवयन्तः पथि पथि कुलटामानसं कम्पयन्तः प्रस्थातारं प्रभाते प्रियतममबला गाढमालिङ्गयन्तः।
उत्थातुं चाङ्गभङ्गीः कुलकमलदृशां कारयन्तो निशान्ते कूङ्काराः कुक्कुटानां मधुमधुरसमारम्भगम्भीरधीराः॥ 68 ॥