शमितनिखिलदीपे सुप्तनिद्रालुलोके रतपरवशचित्ता मध्यरात्रे विबुद्धाः।
प्रथमसुरतखिन्नां मुग्धिकां बोधयन्तो बहुदृढपरिरम्भैः कामुकाः खेदयन्ति॥ 1 ॥
अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्ये।
कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवाश्लिष्यति प्राणनाथम्॥ 2 ॥
चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः।
अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः॥ 3 ॥
वदनशशिनः स्पर्शे शीतादिवागतवेपथुः स्तनयुगलके भ्रान्त्वा तुङ्गे निविष्ट इव भ्रमात्।
ज्वलितमदनाङ्गारे तन्व्यास्ततो जघनस्थले सपुलकजलः पत्युः पाणिर्विलीन इवाभवत्॥ 4 ॥
रतिकृतिगते मायानिद्रां प्रवर्तितचुम्बना पुलकपयसा तत्त्वं मत्वा मुखादहृतानना।
कृतकशयनो निग्राह्योऽसीत्युदीर्य कलं वधूर्व्रणितमधरं कृत्वा दन्तैरपूरयत स्पृहाम्॥ 5 ॥