कलङ्कदाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालम्।
लग्नोडुमीनांल्लघु सञ्जिघृक्षुश्चन्द्रप्लवस्थश्चरमाब्धिमेति॥ 1 ॥
असौ हि दत्त्वा तिमिरावकाशमस्तं व्रजत्युन्नतकोटिरिन्दुः।
जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टम्॥ 2 ॥
वृन्देन तारावलितण्डुलानामङ्गेन च श्रीफलपल्लवेन।
1अभ्यर्च्य जागेश्वरमिन्दुबिम्बं विसर्जयत्येष नभोमुनीन्द्रः॥ 3 ॥
2मन्दमग्निम3धुरर्य4मोपला दर्शितश्वयथु5 चाभवत्तमः।
दृष्टयस्तिमिरजं सिषेविरे दोष6मोष7धिपतेरसन्निधौ॥ 4 ॥
अरुणकिरणजालैरन्तरिक्षे गतर्क्षे चलति शिशिरवाते मन्दमन्दं प्रभाते।
युवतिजनकदम्बे नाथमुक्तौष्ठबिम्बे चरमगिरिनितम्बे चन्द्रबिम्बं ललम्बे॥ 5 ॥
जरठ इव मरालो जर्जराग्रैर्मयूखैः स्खलति शिशिरभानुः पश्चिमाम्भोधिपारे।
श्लथगरुत इवामूस्तत्र तत्रान्तरिक्षे विरलविरलभासः किं च तारा लुठन्ति॥ 6 ॥
चरमगिरिकुरङ्गीशृङ्गकण्डूयनेन स्वपिति मुखमिदानीमन्तरिन्दोः कुरङ्गः।
परिणतरविगर्भव्याकुला पौरुहूती दिगपि घनकपोतीहुंकृतैः कुप्यतीव॥ 7 ॥
उदयमुदितदीप्तिर्याति यः सङ्गतौ मे पतति न वरमिन्दुः सोऽपरामेष गत्वा।
स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः॥ 8 ॥
नवकुमुदवनश्रीहासकेलिप्रसङ्गादभिकरुचिरशेषामप्पुषां जागरित्वा।
अयमपरदिशोऽङ्गे मुञ्चति स्रस्तहस्तः शिशयिषुरिव पाण्डुम्लानमात्मानमिन्दुः॥ 9 ॥
सपदि कुमुदिनीभिर्मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः।
इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर्वहति कृशमशेषं भ्रष्टशोभं शुचेव॥ 10 ॥
प्रकटमलिनलक्ष्मा मृष्टपत्त्रावलीकैरधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः।
उपहसित इवासौ चन्द्रमाः कामिनीनां परिमतशरकाण्डापाण्डुभिर्गण्डभागैः॥ 11 ॥
विकसितमुखीं रागासङ्गाद्गलत्तिमिरावृतिं दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः।8
जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त प्राचेतसीं तुहिनद्युतिः॥ 12 ॥
नक्षत्रक्षितिनायकोऽयमधुना रुद्धः प्रभातागमे सप्ताश्वेन बलीयसातिमहसा रोषारुणज्योतिषा।
भ्रश्यद्ध्वान्तशिरोरुहां प्रविगलत्तारालिहारावलीमादाय क्षणदां प्रियां क्षितिधरं पाश्चात्यमारोहति॥ 13 ॥
संश्लिष्टा सानुरागं स्वकरपरिचयप्राप्तभूरिप्रसादा या पूर्वा भुक्तपूर्वा रविकरकलितां तामुदीक्ष्यामृतांशुः।9
10निस्तेजाः पश्चिमाब्धौ प्रविशति हि सतां दुःसहो मानभङ्गः किं वक्तव्यं सितांशोः स तु सकलसतां मण्डलस्यापि नेता॥ 14 ॥11