सन्यासमकृत काञ्ची जहौ कलत्रं दुकूलमबलायाः।
तत्याज रागमधरो मुक्तिमुरीचक्रिरे चिकुराः॥ 1 ॥
सुतनु श्रुतिसेवनतो मन्ये नयनं निरञ्जनं जातम्।
मुग्धा स्नेहात्कबरी युक्तां मुक्तिं कथं प्राप॥ 2 ॥
खिन्नालसनयनान्तं खिन्नालिकलग्नकुन्तलस्तबकम्।
वदनमवलुप्ततिलकं मदनं नेदयति दवयति धृतिं मे॥ 3 ॥
पपात मेरोः सुरसिन्धुधारा ववर्ष तारागणमन्धकारः।
बभूव भृङ्गावलिरप्यकम्पा शशाम शम्पालतिकाविलासः॥ 4 ॥
पपात गङ्गा हरमौलिसङ्गादन्धंतमोभूतमपेतबन्धम्।
तडिल्लता चञ्चलतामहासीदस्पन्दमासीदरविन्दयुग्मम्॥ 5 ॥
कामसङ्गरविधौ मृगीदृशः प्रौढपौरुषधरे पयोधरे।
स्वेदराजिरुदियाय सर्वतः पुष्पवृष्टिरिव पुष्पधन्वनः॥ 6 ॥
सङ्गताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव।
भूय एव समगंस्त रतान्ते ह्रीर्वधूभिरसहा विरहस्य॥ 7 ॥
प्रेक्षणीयकमिव क्षणमासन्ह्रीविभङ्गुरविलोचनपाताः।
सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः॥ 8 ॥
अप्रभूततमनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु।
क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेव॥ 9 ॥
मृष्टटन्दनविशेषकभक्तिर्भ्रष्टभूषणकदर्थितमाल्यः।
सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः॥ 10 ॥
योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे।
मेखलेव परितः स्म विचित्रा राजते नवनखक्षतलक्ष्मीः॥ 11 ॥
भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगण्डतलेषु।
दन्तवाससि समानगुणश्रीः सम्मुखोऽपि परभागमवाप॥ 12 ॥
सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः।
मुक्तमौक्तिकलघुर्गुणशेषा हारयष्टिरभवद्गुरुरेव॥ 13 ॥
विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने।
योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव॥ 14 ॥
आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः।
दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः॥ 15 ॥
उपबर्हमम्बुजदृशो निजं भुजं विरचय्य वक्त्रमपि गण्डमण्डले।
निजसक्थि सक्थिनि निधाय सादरं स्वपिति स्तनार्पितकराम्बुजो युवा॥ 16 ॥
करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति।
स्थगयति मुहुः प्रत्युर्नेत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षते॥ 17 ॥
सुरतविरतक्रीडावेशश्रमश्लथहस्तया रहसि गलितं तन्व्या प्राप्तुं न पारितमंशुकम्।
रतिरसजडैरङ्गैरङ्गे पिधातुमशक्तया प्रियतमतनौ सर्वाङ्गीणं प्रविष्टमधृष्टया॥ 18 ॥
प्रियकृतपटस्तेयव्रीडाविलम्बनविह्वलां किमपि कृपणालापां बालां विलोक्य ससम्भ्रमः।
अपि विचलिते स्कन्धावारे गते सुरताहवे त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः॥ 19 ॥
शयानस्योत्तानं हृदि निहितवक्षोरुहभरा तिरश्चीने वक्त्रे निबिडकलितात्मीयवदना।
समाक्रम्योरुभ्यामतिदृढतरं सक्थियुगलं स्वपित्यम्भोजाक्षी शिथिलभुजबन्धेयमधुना॥ 20 ॥
मुखं जृम्भारम्भि प्रसरति मदामोदलहरी दृशोस्तन्द्राभारः स्फुरति विगलत्यङ्गलतिका।
त्वमेतादृक्कान्तिः कमलमुखि धन्यैव नितरामसौ धन्यो यस्ते सकलरजनीं जागरयिता॥ 21 ॥
प्रियायाः प्रत्यूषे गलितकबरीबन्धनविधावुदञ्चद्दोर्वल्लीदरवलितचेलाञ्चलमुरः।
घनाकूते पश्यत्यथ मयि समन्दाक्षिवलितं नमन्त्या यद्रूपं नहि लिखितुमीशो मनसिजः॥ 22 ॥
रतान्ते प्राणेशे वसनमददाने कथमपि स्थिताया याचन्त्या वितर मम चेलं गुणनिधे।
सरोषं पश्यान्त्याः किमपि च हसन्त्याः परिचलन्नमन्त्यास्तद्रूपं नहि लिखितुमीशो मनसिजः॥ 23 ॥
शान्ते मन्मथसङ्गरे रणभृतां सत्कारमातन्वती वासोऽदाज्जघनस्य पीनकुचयोर्हारं श्रुतेः कुण्डलम्।
बिम्बोष्ठस्य च वीटिकां सुनयना पाण्यो रणत्कङ्कणे पश्चाल्लम्बिनि केशपाशनिचये युक्तो हि बन्धक्रमः॥ 24 ॥
नेपथ्यादपि राजते हि नितरां व्यालुप्तभूषा तनुः सम्भोगश्रममीलितं विजयते चक्षुः कटाक्षादपि।
गाढालिङ्गनकौतुकादपि नवं दोर्वल्लिविस्रंसनं प्रीत्यालापरसादपि प्रियतमं मौनं कुरङ्गीदृशः॥ 25 ॥
निर्वृत्ते सुरतोत्सवे बहुविधे जातेऽधिकेऽङ्गक्लमे तल्पे स्वेदजलार्द्रचन्दनमये किञ्चिद्गृहीतेऽम्बरे।
सान्द्रस्नेहवशाद्विशेषविषयव्यासङ्गजिह्मात्मनोर्दंपत्योः स्मरघस्मरातुरतया भूयोऽपि जाता स्पृहा॥ 26 ॥
मुक्ताभूषणमिन्दुबिम्बमजनि व्याकीर्णतारं नभः स्मारं चापमपेतचापलमभूदिन्दीवरे मुद्रिते।
व्यालीनं कलकण्ठकण्ठनिनदैर्मन्दानिलैर्मन्दितं निष्कम्पस्तबकापि चम्पकलता साभून्न जानेऽथ किम्॥ 27 ॥
नीव्यां संयमनं कचे नियमनं श्रोणीतले चासनं निश्वासाभ्यसनं मुखे समभवत्प्रत्याहृतिर्भूषणे।
ध्यानं प्रेमणि धारणा स्तनतटे तन्व्याः समाधिः प्रिये निर्वेदादिव किं रतान्तसुलभात्सर्वाङ्गयोगोत्सवः॥ 28 ॥
निर्लोपौ कुचकुङ्मलौ कचभरस्तत्याज बन्धं ययौ काञ्ची निर्गुणतां निरञ्जनदशा दृग्भ्यां समासादिता।
नीरागोऽधरपल्लवश्च गुरुणा केनापि गौराङ्गि ते शङ्के शम्बरशासनोपनिषदां तत्त्वावबोधः कृतः॥ 29 ॥
तन्द्रातुन्दिलशोणलोचनयुगं दत्ताङ्कदन्तच्छदं पर्यस्तालकवल्लि घर्मपटलप्रोद्भिन्नपत्त्रावलि।
जृम्भोज्जृम्भितसीधुसौरभमिलद्भृङ्गीभिरङ्गीकृतस्तोत्रं शंसति वृत्तमेव रजनीवृत्तान्तमेणीदृशः॥ 30 ॥
स्वामिन्भङ्गुरयालकं सतिलकं भालं विलासिन्कुरु प्राणेश त्रुटितं पयोधरतटे हारं पुनर्योजय।
इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्रानना स्पृष्टा तेन तथैव जातपुलका प्राप्ता पुनर्मोहनम्॥ 31 ॥
व्यालोलः केशपाशस्तरलितमलकैः स्वेदलोलौ कपोलौ क्लिष्टा बिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः।
काञ्ची काञ्चिद्गताशां स्तनजघनपदं पाणिना छादयन्ती भूषाहीनापि काचित्प्रियहृदयमहो प्रीणयत्येव मुग्धा॥ 32 ॥
सव्यासव्योरुबाहुव्यतिकरमधुरं कूर्परन्यस्तशीर्षं संसक्तास्याब्जयुग्मश्वसितहतचलच्चारुनासाविभूषम्।
भूयो निद्रातिरेकात्क्रमशिथिलभुजाश्लेषदत्तावकाशोच्छ्वासोदञ्चत्कुचाग्रप्रतिहतहृदयं शेरतेऽमी रतान्ते॥ 33 ॥
व्यामिश्रैकैकबाहु प्रवलितपृथुलैकैकचारूरुकाण्डं दष्ट्वा दष्ट्वाधरोष्ठं दरशिथिलतनुश्लेषमालिङ्ग्य कान्ताः।
शश्वन्निःश्वासवेगस्फुरितगुरुकुचद्वन्द्वसङ्घृष्टवक्षाः श्रान्तः शेते रतान्ते सुखमिह सुकृती लीलया कामिलोकः॥ 34 ॥