५४ विपरीतरतक्रिया

प्रशान्ते नूपुरारावे श्रूयते मेखलाध्वनिः।
कान्ते नूनं रतिश्रान्ते कामिनी पुरुषायते॥ 1 ॥
पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकानिकरः।
रतरसरभसकचग्रहलुलितालकवल्लरीगलितः॥ 2 ॥
विपरीतमविपरीतं यद्रतमन्यत्तदेव विपरीतम्।
तरुमारोहति लतिका नारोहति च लतिकां तरुः क्वापि॥ 3 ॥
साक्षादभूत्स्वयंभूरथ मुक्तास्तिमिरनिकरभराः।
प्रणनाम शीतरोचिस्तवपाठं मेखला विदधे॥ 4 ॥
वियति विलोलति 1जलदः स्खलति विधुश्चलति2 कूजति 3कपोतः।
निष्पतति 4तारकाततिरान्दोलति वीचिर5मरवाहिन्याः॥ 5 ॥

स्थगयति तमः शशाङ्कं चलति गिरिः स्रवति तारकापटलम्।
कथयति मन्ये काञ्चीपुरसीमनि किमपि सङ्क्षोभम्॥ 6 ॥
मुक्ताः पतन्ति भूमौ बालाः कलयन्ति केवलां मुक्तिम्।
चुम्बत्यम्बरमवनिं विपरीते किं न विपरीतम्॥ 7 ॥
कल्गुत्कुचं व्याकुलकेशपाशं स्विद्यन्मुखं स्वीकृतमन्दहासम्।
पुण्यातिरेकात्पुरुषा लभन्ते पुंभावमम्भोरुहलोचनानाम्॥ 8 ॥
वक्त्रस्यन्दिस्वेदबिन्दु6प्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे।
पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खङ्गरेखां लिलेख॥ 9 ॥

मधुपानसमुल्लसत्प्रवालं चलहेमाचलकान्तिभिर्जटालम्।
विधुनिषमपतदन्धकारजालं शुभकालं क्व पुनर्विलोकयामः॥ 10 ॥
अभिमुखपतयालुभिर्ललाटश्रमसलिलैरपनीतपत्त्रलेखः।
कथयति पुरुषायितं वधूनां मृदितहिमद्युतिनिर्मलः कपोलः॥ 11 ॥
तन्नास्ति कारयति यन्न मनोभवस्य सा शक्तिरप्रतिहता भुवने तथाहि।
उद्धाट्य पीवरपयोधरमण्डलाग्रं वल्गन्ति यत्पुरुषवत्प्रमदा अपीह॥ 12 ॥
मुग्धे तवास्मि दयिता दयितो भव त्वमित्युक्तया नहि नहीति शिरो विधूय।
स्वस्मात्करात्प्रियकरे वलयं क्षिपन्त्या वाचं विनाभ्युपगमः कथितो मृगाक्ष्या॥ 13 ॥
वीरायितेषु मृगशावविलोचनानां कण्ठोदितान्यचरमं कलकूजितानि।
आम्रेडयद्भिरथ सौधगतैः कपोतैः शङ्के गृहीत इति सम्प्रति शिष्यभावः॥ 14 ॥
तमःस्तोमं सोमं गिलति वमतीवोडुनिकरं रथाङ्गद्वन्द्वेऽस्मिन्नमरतटिनी खेलति मुहुः।
लतायामुत्कम्पो मदनवसतीकाञ्चनगिरिर्विपर्येति प्रायो रतिपतिमते सर्वमधुना॥ 15 ॥
विहायसि विहारिणी भवतु नाम सौदामिनी सुमेरुशिखरादधः पततु नाम मन्दाकिनी।
परं तदिदमद्भुतं यदयमेत्य भूमीतलं नमन्नमृतदीधितिः कमलसारमाकर्षति॥ 16 ॥
प्रारब्धे रतिकेलिसंकुलरणारम्भे तया साहसप्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि तत्सम्भ्रमात्।
खिन्ना येन कटीतटी शिथिलिता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमैक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति॥ 17 ॥
आलोलामलकावलिं सुकुसुमां बिभ्रच्चलत्कुण्डलं किञ्चिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसः सीकरैः।
तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः॥ 18 ॥
प्रारब्धे विपरीतनामनि रते सर्वं तदाभूत्क्षणात्क्षामाङ्ग्यां विपरीतमेव कुटिला मुक्ताः सुवृत्ता अपि।
मुक्ता निष्पतिता भवन्ति तरलास्तौ चाचलौ चेलतुः सीदन्ति श्रुतिपारगाः सुमनसः कान्ता नु कान्तायते॥ 19 ॥
निःशेषं व्यपनीय नीविवसनं मज्जुक्वणन्मेखलं क्रीडान्दोलनखिन्नमध्यलतिकं किंचित्प्रकम्पस्तनम्।
उद्यत्कुण्डलताण्डवं च रुचिरं विक्रम्य कान्तोपरि क्लान्तावक्षसि कामिनां मुकुलितप्रान्ताक्षिकं शेरते॥ 20 ॥
प्रागल्भ्यं पुरुषायिते मम पुरः पश्येति सन्नद्धया तन्व्या ताम्यदुरोजयापि सुचिरं विक्रम्य रम्यं तया।
श्रान्ता वक्षसि मे निपत्य च पुनः सापत्रपं सस्मितं साकूतं च समीक्षितं मृगदृशा यत्तत्कथं कथ्यते॥ 21 ॥


  1. केशकलापरूषः. ↩︎

  2. मुखरूपः. ↩︎

  3. कण्ठरूपः. ↩︎

  4. मुक्ताकलापरूपा. ↩︎

  5. त्रिवलिरूपा. ↩︎

  6. धाराभिः. ↩︎