५३ सुरतकेलिकथनम्

आस्तां दूरेण विश्लेषः प्रियामालिङ्गतो मम।
स्वेदः किं नु सरिन्नाथो रोमाञ्चः किं नु पर्वतः॥ 1 ॥
उग्ररूपं कुचद्वन्द्वं हारगङ्गाधरं तव।
चन्द्रचूडं करिष्यामि कुरु तावद्दिगम्बरम्॥ 2 ॥
कान्ते कलितचोलान्ते दीपे वैरिणि दीप्यति।
आसीदसितपद्माक्ष्याः पक्षो नयनमुद्रणम्॥ 3 ॥
ब्रह्मानन्दप्रचुरं किमपीदं नेति रतिषु वचनेन।
श्रुतिसीमसङ्गताक्षी मुग्धे सारङ्गमादिशसि॥ 4 ॥
तव तन्वि तरुणपुण्यादम्बरमणिमकरसङ्क्रमो जातः।
अधिवेणि भवति नियमः फलमविलम्बेन भावि कामस्य॥ 5 ॥
विधृताः प्रियस्य केशाः कण्ठे लग्नं भुजे वलितम्।
मज्जन्त्या रससिन्धौ किं किं न कृतं तया सुदृशा॥ 6 ॥
पृष्ठे कञ्चुकमुक्त्यै सुतनुरसव्यं प्रहिण्वती पाणिम्।
हन्तुमिव चित्तहरिणं यूनस्तूणादिवेषुमादत्ते॥ 7 ॥
चारुनूपुरझणत्कृतं रते कामिनां हरति मानसं यथा।
नो तथा मधुरगीतवादितं केकिचातकपिकस्वना अपि॥ 8 ॥
हेमकुम्भमिव तुङ्गमुरोजं वल्लभे स्पृशति चोरवदस्याः।
जाग्रति स्म सहसैव तदानीं यामिका इव तनूरुहसङ्घाः॥ 9 ॥
पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य॥ 10 ॥
धैर्यमुल्बणमनोभवभावा वामतां च वपुरर्पितवत्यः।
व्रीडितं ललितसौरतधार्ष्ट्यास्तेनिरेऽभिरुचितेषु तरुण्यः॥ 11 ॥
पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः।
कामिनः स्म कुरुते करभोरूर्हारि शुष्करुदिते च सुखेऽपि॥ 12 ॥
वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च।
कुर्वते स्म सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः॥ 13 ॥
अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव।
धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु॥ 14 ॥
बाहुपीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातैः।
बोधितस्तनुशयस्तरुणीनामुन्मिमील विशदं विषमेषुः॥ 15 ॥
कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष।
संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यत्॥ 16 ॥
आहतं कुचतटेन तरुण्याः साधु सोढमधुनेति पपात।
त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः॥ 17 ॥
सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि।
हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः॥ 18 ॥
उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः।
श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव॥ 19 ॥
ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु।
क्षिप्तमायतमदर्शयदुर्व्यां काञ्चिदाम जघनस्य महत्त्वम्॥ 20 ॥
प्राप्यते स्म गतचित्रकचित्रैश्चित्रमार्द्रनखलक्ष्म कपोलैः।
दध्रिरेऽथ रभसच्युतपुष्पाः स्वेदबिन्दुकुसुमान्यलकान्ताः॥ 21 ॥
यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहति तत्तदकुर्वन्।
आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः॥ 22 ॥
प्राप्य मन्मथरसादतिभूमिं दर्वहस्तनभराः सुरतस्य।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥ 23 ॥
पत्युः प्रवृत्तस्य रतौ जिगीषावचो निशम्याथ न किञ्चिदूचे।
कलावती किं तु विहस्य तस्य कपोलयोः स्वेदमपाचकार॥ 24 ॥
उरोरुहाम्भोरुहदर्शनाय विमुञ्चतः कञ्चुकबन्धनानि।
आनन्दनीराकुललोचनस्य प्रियस्य जातो विपुलः परिश्रमः॥ 25 ॥
स्वामिन्प्रभो प्रिय गृहाण परिष्वजस्व किं किं शठोऽस्यकरुणोऽसि सुखोचितोऽसि।
हा दुःखयस्यलमलं विरमेति वाचः स्त्रीणां भवन्ति सुरते प्रणयानुकूलाः॥ 26 ॥
मत्तेभकुम्भपरिणाहिनि कुङ्रुमार्द्रे कान्तापयोधरयुगे रतिखेदखिन्नः।
वक्षो निधाय भुञ्जपञ्जरमध्यवर्ती ध्यः क्षपां क्षपयति क्षणलब्धनिद्रः॥ 27 ॥
कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु।
तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः॥ 28 ॥
आमीलितालसविवर्तिततारकाक्षीमुत्कण्ठबन्धनदरश्लथबाहुवल्लीम्।
प्रस्वेदवारिकणिकाचितगण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः॥ 29 ॥
रतिरभसनितान्तश्रान्तकान्ताकुचान्तश्चलदमलकराग्रा नाभिदेशेष्वधो वा।
स्मितमधुरमुखीनां ह्रीणनेत्रोत्पलानामधरमधु वधूनां भाग्यवन्तः पिबन्ति॥ 30 ॥
अविदितसुखदुःखं निर्गुणं वस्तु किञ्चिज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे।
मम तु मतमनङ्गस्मेरतारुण्यघूर्णन्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः॥ 31 ॥
अभिनवपुलकालीमण्डिता गण्डपाली निगदति विनिगूढानन्दहिन्दोलिचेतः।
सुदति वदति पुण्यैः कस्य धन्यैर्मनोजप्रसरमसकृदेतच्चापलं लोचनस्य॥ 32 ॥
भजन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहितस्मितं याते गेहाद्बहिरवहितालीपरिजने।
प्रियास्यं पश्यन्त्याः स्मरशरसमाकूतसुभगं सलज्जाया लज्जा व्यगमदिव दूरं मृगदृशः॥ 33 ॥
दुकूलं दोर्मूलात्प्रणयिनि परीरम्भनसिके हरत्यम्भोजाक्षी निभृतनिभृतं नम्रवदना।
प्रियाश्लेषद्वेषिण्यपसरतु लज्जा स्फुटमिति स्मितक्षीरेणैव स्तनकलशशंभुं स्नपयति॥ 34 ॥
चिरविरहिणो रत्युत्कण्ठाश्लथीकृतगात्रयोर्नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः।
कथमपि दिने दीर्घे याते निशामधिरूढयोः प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः॥ 35 ॥
दृशा सपदि मीलितं दशनरोचिषा निर्गतं करेण परिवेपितं वलयकैरथाक्रन्दितम्।
प्रियैः समदयोषितां ननु विखण्ड्यमानेऽधरे परव्यसनकातराः किमिव कुर्वतां साधवः॥ 36 ॥
नैषा वेगं मृदुतरतनुस्तावकीनं विसोढुं शक्ता नैनां चपल नितरां खेदयेन्दीवराक्षीम्।
रत्यभ्यासं विदधत इति प्राणनाथस्य गत्वा कर्णोपान्ते निभृतनिभृतं नूपुरं शंसतीव॥ 37 ॥
आयाते दयिते मनोरथशतैर्नीते कथञ्चिद्दिने वैदग्ध्यापगमाज्जडे परिजने दीर्घां कथां कुर्वति।
दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम्॥ 38 ॥
गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्॥ 39 ॥
दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजैराविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः।
हस्तेनानमितः करेऽधरसुधास्पन्देन सम्मोहितः कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः॥ 40 ॥
ईषन्मीलितदृष्टि मुग्धहसितं सीत्कारधारावशादव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम्।
श्वासोत्कम्पिपयोधरोपरि परिष्वङ्गात्कुरङ्गीदृशो हर्षोत्कर्षविमुक्तनिःसहतनोर्धन्यो धयत्याननम्॥ 41 ॥
स्विन्नं मण्डलमैन्दवं विगलितं स्रग्भारबद्धं तमः प्रागेव प्रथमानकेतकशिखावीरायितं च स्थितम्।
शान्तं कुण्डलताण्डवं कुवलयद्वन्द्वं तिरोमीलितं वीतं विद्रुमसीत्कृतं नहि ततो जाने किमासीदिति॥ 42 ॥
गाढाश्लेषनिपीडनान्निपतितामालोक्य हारावलीं स्थातुं हन्त भिया क्षणं निबिडया नीव्यापि न व्यापृतम्।
विश्लेषज्वरवेदनासहनयोः कारुण्यकीर्णात्मना क्वापि प्रापितयोः समागमसुखं यूनोर्मनोजन्मना॥ 43 ॥
हारस्त्रुट्यति कङ्कणं निपतति स्रक्कौमुदी क्लिश्यति ध्वान्तं धावति सीत्करोति रजनीजानिर्वली भज्यति।
काञ्ची क्षुभ्यति काञ्चनक्षितिधरे किं च क्षतं चञ्चति प्रारम्भे मदनाहवस्य विजयी देवो मनोभूरभूत्॥ 44 ॥
सिन्दूरं रविमिन्दमाननमसौ धम्मिल्लराहुस्त्वयं यद्बाढं ग्रसतीव तत्प्रियतमे निर्णीतमौत्पातिकम्।
चोले चञ्चलता भविष्यति मुहुः स्यात्कुन्तले कर्षणं नीवी स्थास्यति न स्थिरा समुदयेदङ्गे महान्सङ्गरः॥ 45 ॥
पश्यन्तीं परिणामकेलिषु मुहुर्निःशङ्कमालिङ्ग्य तां प्रोत्कूजत्कलमग्रहीषमधरं स्पर्धावती साप्यभूत्।
नाहं वेद्मि न वेत्ति सा च दयिता तत्रावयोश्चेष्टितं शय्या वेत्ति न वेत्ति वा स तु कुतः सङ्ग्रामलोलः स्मरः॥ 46 ॥
प्रत्यूहः पुलकाङ्कुरेण निबिडाश्लेषे निमेषेण च क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभूदुद्भूतः स तयोर्बभूव सुरतारम्भः प्रियं भावुकः॥ 47 ॥
ईषत्कम्पपयोधरं गुरुकटिप्रौढप्रहाराद्भुतं स्विद्यद्भालमनेकहास्यसरसं संरम्भमन्दव्यथम्।
वारं वारमुरःप्रहारसुभगं सन्दश्यमानाधरं किञ्चिद्दत्तनितम्बदेशनखरं धन्यो रतं सेवते॥ 48 ॥
त्वं मुग्धाक्षि विनैव कुञ्चुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि।
शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः॥ 49 ॥
कोकः स्तोकविमुक्तमौक्तिकभरो निस्यन्दमिन्दीवरं चापं चापलवर्जितं हिमकरक्रोडे तमः क्रीडति।
वातः कातरयत्यपाकृतरसं बन्धूकमेतावती वार्ता क्वापि कदापि पाणिपिहिता कस्यापि वा तिष्ठति॥ 50 ॥
धम्मिल्लो भङ्गमेतु प्रविशतु तिलकः केशपाशान्धकारं पत्त्राली गण्डपालिं त्यजतु च विवरं कर्णयोर्गन्तुकामा।
वामायाः कान्तदत्तक्षतततिसहने एक एवाधरोऽसौ वीरः कामाहवेऽस्मिन्निति वदति मुहुर्नूपुरः क्वाणभङ्ग्या॥ 51 ॥