५२ नववधूसङ्गमः

यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन।
मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा॥ 1 ॥
आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा।
अभिनववसन्तसङ्गादाविर्मुकुलेव बालचूतलता॥ 2 ॥
खिद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक्।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने॥ 3 ॥
भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः।
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम्॥ 4 ॥
असम्मुखालोकनमाभिमुख्यं निषेध एवानुमतिप्रकारः।
प्रत्युत्तरं मुद्रणमेव वाचो नवाङ्गनानां नव एव पन्थाः॥ 5 ॥
चुम्बनेषु परिवर्तिताधरं हस्तरोधि रसनाविघट्टने।
विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम्॥ 6 ॥
विरम नाथ विमुञ्च ममाञ्चलं शमय दीपमिमं समया सखी।
इति नवोढवधूवचनैर्युवा मुदमगादधिकां सुरतादपि॥ 7 ॥
नीवीदृढार्पितकरां निबिडीकृतोरुं व्रीडानतां तत इतो वदनं हरन्तीम्।
आरोप्य वक्षसि सुखं परिरब्धुमेनां बालां बलादभिलषामि न पारयामि॥ 8 ॥
पटालग्ने पत्यौ नमयति मुखं जातविनया हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम्।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः॥ 9 ॥
समाकृष्टं वासः कथमपि हठात्पश्यति तदा क्रमादूरुद्वन्द्वं जरठशरगौरं मृगदृशः।
तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया निरुद्धं हस्ताभ्यां झटिति निजनेत्रोत्पलयुगम्॥ 10 ॥
बलान्नीता पार्श्वं मुखमभिमुखं नैव कुरुते धुनाना मूर्धानं हरति बहुशश्चुम्बनविधिम्।
हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना नवोढा वोढारं सुखयति च सन्तापयति च॥ 11 ॥
स्फुरद्रोमोद्भेदस्तरलतरताराकुलदृशो भयोत्कम्पोत्तुङ्गस्तनयुगभरासङ्गसुभगः।
अधीराक्ष्या गुञ्जन्मणिवलयदोर्वल्लिरचितः परीरम्भो मोदं जनयति च संमोहयति च॥ 12 ॥
अप्यौत्सुक्ये महति दयितप्रार्थनासु प्रतीपाः काङ्क्षन्त्योऽपि व्यतिकरसुखं कातराः स्वाङ्गदाने।
आबाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वादाबाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः॥ 13 ॥
दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते बाला वामतया प्रियस्य नितरां प्रीत्यै नवोढाभवत्॥ 14 ॥
अंसाकृष्टदुकूलया सलभसं गूढौ भुजाभ्यां स्तनावाकृष्टे जघनांशुके कृतमधःसम्सक्तमूरुद्वयम्।
नाभीमूलनिबद्धचक्षुषि तया व्रीडानताङ्ग्या प्रिये दीपः फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः॥ 15 ॥
हस्तं कम्पवती रुणद्धि रशनाव्यापारलोलाङ्गुलिं हस्तौ स्वौ नयति स्तनावरणतामालिङ्ग्यमाना बलात्।
पातुं पक्ष्मलचक्षुरुन्नमयतः साचीकरोत्याननं व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे॥ 16 ॥
कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणीतटग्राहिणं संसक्तोरुयुगं गृहीतजघनप्राकारमप्यन्ततः।
द्रागेव श्लथबन्धमिन्दुवदना गाढावमर्दासहं विज्ञायात्यजदाशु काञ्चनपटं व्रीडाकुलापि क्षणम्॥ 17 ॥
कान्ते कञ्चुलिकावलोकिनि कलावत्या नमन्त्या स्थितं तस्मिन्कोमलकाकुभाषिणि तया स्पन्दी निरुद्धोऽधरः।
उत्थायाथ करस्पृशि प्रियतमे यूनोर्नवे सङ्गमे काञ्चीकूजितकैतवेन मदनो द्यौःशान्तिमभ्यस्यति॥ 18 ॥
इत्थं तल्पतलाधिरोहणमियं पर्णार्पणप्रक्रिया शय्याया वचनक्रमस्य दयितस्यैवंविधाराधना।
एवं केलिगृहोपदेहलि बलादानीयमाना मुहुश्चाटूक्तिप्रकरैश्चिरं नववधूरालीभिरध्याप्यते॥ 19 ॥