५१ नववधूसङ्गमे सखीवाक्यम्

रक्षामालिकया बाले बद्धया किं प्रयोजनम्।
अवश्यंभाविनावेतौ कुचग्रहकचग्रहौ॥ 1 ॥
बाला तन्वी मृदुतनुरियं त्यज्यतामत्र शङ्का दृष्टा क्वापि भ्रमरभरतो मञ्जरी भज्यमाना।
तस्मादेषा रहसि भवता निर्दयं पीडनीया मन्दाक्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम्॥ 2 ॥
नीरन्ध्रं परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते तद्बाढं क्रियते यदस्य रुचिरं चाटूत्करैः स्तूयते।
सख्या मुग्धवधूरसौ रतविधौ यत्नेन सा शिक्षिता निर्भ्रान्तं गुरुणा पुनः शतगुणं पञ्चेषुणा कारिता॥ 3 ॥
नार्यस्तन्वि हटाद्धरन्ति रमणं तिष्ठन्ति नो वारितास्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः।
कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरे किं नो बर्बरकर्कशैः प्रियशतैराक्रम्य विक्रीयते॥ 4 ॥