५० सुरतप्रशंसा

सुरते च समाधौ च माया यत्र न लीयते।
ध्यानेनापि हि किं तेन किं तेन सुरतेन वा॥ 1 ॥
यत्र न वदनविकारः सद्भावसमर्पणं न गात्राणाम्।
तस्मिन्नुद्धतमभावे पशुकर्मणि पशव एव रज्यन्ते॥ 2 ॥
प्रतिक्षणसमुल्लसन्नवकलाकलापान्वितक्षपाकरविलोकने यदि तवास्ति कौतूहलम्।
विलोकय तदा सखे सुरतसङ्गरालोकनप्रहृष्टदयितामुखं निबिडकञ्चुकोत्तारणे॥ 3 ॥
नरैर्विफलजन्मभिर्गिरिदरी न किं सेव्यते न चेच्छ्रवणगोचरीभवति जातुचिज्जन्मनि।
कपोतरवमाधुरीविरचनानुकारादरीरतासहकृशोदरीवचनकाकुरीतिध्वनिः॥ 4 ॥
सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती मा मा मुञ्च शठेति कोपवचनैरानर्तितभ्रूलता।
सीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः॥ 5 ॥
किं चैतैर्गुरुसेवनैः किमपरव्योमार्चनैः किं फलं किं स्यादध्ययनेन मे सुरपदप्राप्त्याथ किं वा फलम्।
एतस्याः कुचकुम्भसम्भ्रमपरीरम्भप्रवाहोद्गमस्वेदाम्भोभिरनङ्गवह्निरधुना निर्वापितो नो यदि॥ 6 ॥
प्राङ् मा मेति ततो नवोदयगुणं मानाभिलाषं ततः सव्रीडं तदनु श्लथोद्यममथ प्रभ्रष्टधैर्यं पुनः।
प्रेमार्द्रस्पृहणीयनिर्भरतरं क्रीडाप्रगल्भं ततो निःसङ्गाङ्गविमर्शनाधिकसुखं रम्यं कुलस्त्रीरतम्॥ 7 ॥
शङ्काशृङ्खलितेन यत्र नयनप्रान्तेन न प्रेक्ष्यते केयूरध्वनिभूरिभीतिचकितं नो यत्र वाश्लिष्यते।
नो वा यत्र शनैरलग्नदशनं बिम्बाधरः पीयते नो वा यत्र विधीयते च मणितं तत्किं रतं कामिनोः॥ 8 ॥
आकाशे नटनं सरोरुहयुगे मञ्जीरमञ्जुध्वनिः शीतांशौ कलकूजितं किसलये पीयूषपानोत्सवः।
स्वर्गक्षोणिधरे नखात्परिभवो ध्वान्ते कराकर्षणं रम्भायां रसनारवस्तरुणयोः पुण्यानि मन्यामहे॥ 9 ॥