०३ विहारः

आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वितयेन।
रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिर हृदयानि॥ 17 ॥
कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाग्रैः।
अक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि॥ 18 ॥
सोष्मणस्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानाम्।
उच्छ्वसत्कमलचारुषु हस्तैर्निम्ननाभिसरसीषु निपेते॥ 19 ॥
आमृशद्भिरभितो वलिवीचीर्लोलमानवितताङ्गुलिहस्तैः।
सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः॥ 20 ॥
प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय।
औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम्॥ 21 ॥
कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गिः।
मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम्॥ 22 ॥
अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य।
वारणामिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्जे॥ 23 ॥
ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः।
भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः॥ 24 ॥
आशु लङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या।
रक्तवैणिकहताधरतन्त्रीमण्डलक्वणितचारु चुकूजे॥ 25 ॥
आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये।
श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन॥ 26 ॥
चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम्।
कामिनामनिभृतान्यपि रम्भास्तम्भकोमलतलेषु नखानि॥ 27 ॥
ऊरुमूलचपलेक्षणमघ्नन्यैर्वतंसकुसुमैः प्रियमेताः।
चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम॥ 28 ॥