०२ चुम्बनम्

लोलदृष्टि वदनं दयितायाश्चुम्बति प्रियतमे रभसेन।
व्रीडया सह विनीवि नितम्बादंशुकं शिथिलतामुपपेदे॥ 12 ॥
आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः।
सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः॥ 13 ॥
ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य।
अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत्॥ 14 ॥
पल्लवोपमिति साम्यसपक्षं दृष्टवत्यधरबिम्बमभीष्टे।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण॥ 15 ॥
केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु।
ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे॥ 16 ॥