०१ आलिङ्गनम्

ह्रीतया गलितनीवि निरस्यन्नन्तरीयमवलम्बितकाञ्चि।
मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः॥ 1 ॥
उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम्।
आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या॥ 2 ॥
अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमग्धकुचाग्रा।
भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा॥ 3 ॥
सञ्जहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम्।
संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम्॥ 4 ॥
स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन।
आत्मनैव रुरुधे कृतिनेव स्वेदसङ्गि वसनं जघनेन॥ 5 ॥
पीडिते पुर उरः प्रतिपेषं भर्तरि स्तनयुगेन युवत्याः।
स्पष्टमेव दलतः प्रतिनार्यास्तन्मयत्वमभवद्धृदयस्य॥ 6 ॥
दीपितस्मरमुरस्युपपीडं वल्लभे घनमभिष्वजमाने।
वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन॥ 7 ॥
सम्प्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम्।
आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन्॥ 8 ॥
स्नेहनिर्भरमधत्त वधूनामार्द्रतां वपुरसंशयमन्तः।
यूनि गाढपरिरम्भिणि वस्त्रन् कोपमम्बु ववृषे यदनेन॥ 9 ॥
न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा।
यद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः॥ 10 ॥
यत्प्रियव्यतिकराद्वनितानामङ्गजेन पुलकेन बभूवे।
प्रापि तेन भृशमुच्छ्वसिताभिर्नीविभिः सपदि बन्धनमोक्षः॥ 11 ॥