स्मितेनोपायनं दूरादागतस्य कृतं मम।
स्तनोपपीडमाश्लेषः कृतो द्यूते पणस्तया॥ 1 ॥
आश्लेषचुम्बनरतोत्सवकौतुकानि क्रीडादुरोदरपणः प्रतिभूरनङ्गः।
भोगः स यद्यपि जये च पराजये च यूनोर्मनस्तदपि वाञ्छति जेतुमेव॥ 2 ॥
रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकलकण्ठार्धमधरे।
कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदितस्मितक्रोधोद्भ्रान्तं पुनरपि विदध्यान्मयि मुखम्॥ 3 ॥
अद्य द्यूतजिताधरग्रहविधावीशोऽसि तत्खण्डनादाधिक्ये वद को भवानिति मृषा कोपाञ्चितभ्रूलता।
सद्यः स्विन्नकराग्रकुन्तलपरायत्तीकृतास्यस्य मे मुग्धाक्षी प्रतिकृत्य तत्कृतवती द्यूतेऽपि यन्नार्जितम्॥ 4 ॥
गाढालिङ्गनपूर्वमेकमनया द्यूते जिते चुम्बनं तत्किञ्चित्परिरभ्य दत्तममुना प्रत्यर्पितं चानया।
नैतत्तादृगिदं न तादृशमिति प्रत्यर्पणप्रक्रमैर्यूनोश्चुम्बनमेकमेव बहुधा रात्रिर्गता तन्वतोः॥ 5 ॥
आश्लेषे प्रथमं क्रमेण विजिते हृद्येऽधरस्यार्पणे नर्मद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति।
अन्तर्हासनिरोधसम्भृतरसोद्भेदस्फुरद्गण्डया स्वैरं सारिविसारणाय विहितः स्वेदाम्बुगर्भः करः॥ 6 ॥