दृश्यते पानगोष्ठीषु कान्तावक्त्रगतं मधु।
स्मरं सहायमासाद्य ग्रस्तो राहुरिवेन्दुना॥ 1 ॥
सागसि प्रियतमे कृतकोपा याङ्घ्रियुग्मपतितेऽपि न तुष्टा।
सैव मद्यपरिलुप्तविवेका तं तथैव परितोषयति स्म॥ 2 ॥
मूर्तिमन्तमिव रागरसौघं ते परस्परसमर्पितवक्त्राः।
आननासवमिषेण तदानीमक्षिपन्त हृदयेषु युवानः॥ 3 ॥
सज्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि।
आययुः सुघटितानि सुरायाः पात्रतां प्रियतमावदनानि॥ 4 ॥
सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन।
ते मुहूर्तमथ मूर्तमपीप्यन्प्रेम मानमवधूय वधूः स्वाः॥ 5 ॥
क्रान्तकान्तवदनप्रतिबिम्बे मग्नबालसहकारसुगन्धौ।
स्वादुनि प्रणदितालिनि शीते निर्ववार1 मधुनीन्द्रियवर्गः2॥ 6 ॥
कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत।
फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्घ्रिः॥ 7 ॥
बिम्बितं भृतपरिस्रुति जानन्भाजने जलजमित्यबलायाः।
घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः॥ 8 ॥
दत्तमिष्टमया मधु पत्युर्बाढमाप पिबतो रसवत्ताम्।
यत्सुवर्णमुकुटांशुभिरासीच्चेतनाविरहितैरपि पीतम्॥ 9 ॥
स्वादनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र।
अन्यमन्यदिव यन्मधु यूनः स्वादमिष्टमतनिष्ट तदेव॥ 10 ॥
बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते।
आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः॥ 11 ॥
पीतवत्यभिमते मधुतुल्यस्वादमोष्ठरुचकं 3विददङ्क्षौ।
लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः॥ 12 ॥
कस्यचित्समदनं मदनीयप्रेयसीवदनपानपरस्य।
स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत्॥ 13 ॥
पीतशीधुमधुरैर्मिथुनानामाननैः परिहृतं चषकान्तः।
व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात्॥ 14 ॥
4प्रातिभं 5त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः॥ 15 ॥
हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः।
चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन॥ 16 ॥
अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम्।
क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः॥ 17 ॥
सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे।
विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम्॥ 18 ॥
सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु।
गन्तुमुत्तितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम्॥ 19 ॥
मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या।
वीक्ष्यते स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव॥ 20 ॥
या कथञ्चन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे।
व्रीडजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः॥ 21 ॥
छादितः कथमपि त्रपयान्तर्यः प्रियं प्रति चिराय रमण्याः।
वारुणीमदविशङ्कमताविश्चक्षुषोऽभवदसाविव रागः॥ 22 ॥
आगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणाम्।
प्रापि चेतसि स विप्रतिसारे सुभ्रुवामवसरः सरकेण॥ 23 ॥
मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता।
योषिदित्यभिललाष न हालां दुस्त्यजः खलु सुखादपि मानः॥ 24 ॥
ह्रीविमोहमहरद्दयितानामन्तिकं रतिमुखाय निनाय।
सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासाम्॥ 25 ॥
दत्तमात्तवदनं दयितेन व्याप्तमातिशयिकेन रसेन।
सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि॥ 26 ॥
लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः।
मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु॥ 27 ॥
मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम्।
लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन॥ 28 ॥
पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः।
प्रेयसामधररागरसेन स्वं किलाभरमुपालि ररञ्जुः॥ 29 ॥
अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन।
उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद॥ 30 ॥
अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या।
पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः॥ 31 ॥
कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा।
कोपितं विरहखेदितचित्ता कान्तयेव कलयन्त्यनुनिन्ये॥ 32 ॥
कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवाचाम्।
ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन॥ 33 ॥
गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्चितदृशां प्रतिमेन्दुः।
पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत्॥ 34 ॥
उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः।
योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंषि वपूंषि॥ 35 ॥
चारुता वपुरभूषयदासां तामनूननवयौवनयोगः।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः॥ 36 ॥
क्षीबतामुपगतास्वनुवेलं तासु रोषपरितोषवतीषु।
अग्रहीन्नु सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः॥ 37 ॥
शङ्कयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव।
न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः॥ 38 ॥
आननैर्विचकसे हृषिताभिर्वल्लभानभितनूभिरभावि।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम्॥ 39 ॥
रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि।
चाटु चाकृतकसम्भ्रममासां कार्मणत्वमगमन्रमणेषु॥ 40 ॥
लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन।
मानवञ्चनविदा वदनेन क्रीतमेव हृदयं दयितस्य॥ 41 ॥
शीधुपानविधुरासु निगृह्णन्मानमाशु शिथिलीकृतलज्जः।
सङ्गतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु॥ 42 ॥
पातुमाहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि।
सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः॥ 43 ॥
कान्तसङ्गमपराजितमन्यौ वारुणीरसनशान्तविवादे।
मानिनीजन उपाहितसन्धौ सन्दधे धनुषि नेषुमनङ्गः॥ 44 ॥
कुप्यताशु भवतानतचित्ताः कोपितांश्च विरवस्यत यूनः।
इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः॥ 45 ॥
भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीमतिरसां रसयित्वा।
ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः॥ 46 ॥
स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः।
आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे॥ 47 ॥
भ्रूविलाससुभगाननुकर्तुं विभ्रमानिव वधूनयनानाम्।
आददे मृदुविलोलपलाशैरुत्पलैश्चषकवीचिषु कम्पः॥ 48 ॥
ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम्।
फुल्ललोचनविनीलसरोजैरङ्गनास्यचषकैर्मधुवारः॥ 49 ॥
प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः।
तत्तथा हि यदिताननदत्तं व्यानशे मधु रसातिशयेन॥ 50 ॥
वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम्।
जज्ञिरे बहुमताः प्रमदानामोष्ठयावकनुदो मधुवाराः॥ 51 ॥
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने॥ 52 ॥
तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा।
योषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः॥ 53 ॥
क्षीणयावकरसोऽप्यतिपानैः कान्तदन्तपदसम्भृतशोभः।
आययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः॥ 54 ॥
रागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु।
सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः॥ 55 ॥
बद्धकोपविकृतीरपि रामश्चारुताभिमततामुपनिन्ये।
वश्यतां मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः॥ 56 ॥
वाससां शिथिलतामुपनाभि ह्रीनिरासमपदे कुपितानि।
योषितां विधदती गुणपक्षे निर्ममार्ज मदिरा वचनीयम्॥ 57 ॥
भर्तृषूपसखि निक्षिपतीनामात्मनो मधुमदोद्यमितानाम्।
व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु॥ 58 ॥
रुन्धती नयनवाक्यविकासं सादितोभयकरा परिरम्भे।
व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे॥ 59 ॥
योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कम्।
कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम्॥ 60 ॥
आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम्।
आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः॥ 61 ॥
मा गमनमदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः।
योषितो न मदिरां भृशमीषुः प्रेम पश्यति भयान्यपदेऽपि॥ 62 ॥
चित्तनिर्वृतिनिधायि विविक्तं मन्मथो मधुमदः शशिभासः।
सङ्गमश्च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम्॥ 63 ॥
धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये।
मानिनीरतिविधौ कुसुमेषुर्मत्तमत्त इव विभ्रममाप॥ 64 ॥
शीधुपानविधुरेषु वधूनां निघ्नतामुपगतेषु वपुःषु।
ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे॥ 65 ॥
पीतस्तुषारकिरणो मधुनेव सार्धमन्तः प्रविश्य चषकप्रतिबिम्बवर्ती।
मानान्धकारमपि मानवतीजनस्य नूनं बिभेद यदसौ प्रससाद सद्यः॥ 66 ॥
पिपिप्रिय ससस्वयं मुमुमुखासवं देहि मे ततत्यज दुदुद्रुतं भभभभाजनं काञ्चनम्।
इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्येयत॥ 67 ॥